प्रधानमन्त्रिणा मोदिना २३,५५०–कोटि–रूप्यक–मूल्यस्य एक्सप्रेस–मार्ग–परियोजनया सह तिसृणां परियोजनानां शिलान्यासः कृतः
सिलचरनगरम् (कछार–जनपदः), १४ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी शनिवासरे कछार–जनपदस्य मुख्यालय–नगरे सिलचर–नगरे प्रायः ₹२३,५५०–कोटि–रूप्यक–मूल्यस्य त्रयाणां विकास–परियोजनानां आरम्भं कृतवान्। एषा असम–राज्ये अग्रिम–विधानसभा–निर्वाचनेभ्य: पू
असमः सिलचर में आभासी माध्यम से ₹23,550 करोड़ की तीन परियोजनाओं की आधारशिला रखते प्रधानमंत्री नरेन्द्र मोदी


असमः सिलचर में आभासी माध्यम से ₹23,550 करोड़ की तीन परियोजनाओं की आधारशिला रखते प्रधानमंत्री नरेन्द्र मोदी


असमः सिलचर में आभासी माध्यम से ₹23,550 करोड़ की तीन परियोजनाओं की आधारशिला रखते प्रधानमंत्री नरेन्द्र मोदी


सिलचरनगरम् (कछार–जनपदः), १४ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी शनिवासरे कछार–जनपदस्य मुख्यालय–नगरे सिलचर–नगरे प्रायः ₹२३,५५०–कोटि–रूप्यक–मूल्यस्य त्रयाणां विकास–परियोजनानां आरम्भं कृतवान्। एषा असम–राज्ये अग्रिम–विधानसभा–निर्वाचनेभ्य: पूर्वं तस्य द्विदिवसीय–प्रवासस्य अन्तिमं चरणम् आसीत्।

उपलब्ध–सूचनानुसारं, गुवाहाटी–नगरे रात्रिं अतीत्य प्रधानमन्त्री प्रातःकाले सिलचर–नगरं प्रति प्रस्थितवान्, यत्र सः ₹२२,८६४–कोटि–रूप्यक–मूल्यस्य शिलाङ्ग–सिलचर–कॉरिडोर–परियोजनायाः भूमिपूजनम् अकरोत्।एषः १६६–किलोमीटर–दीर्घः चतुर्लेन–युक्तः मार्गः पूर्वोत्तर–प्रदेशे प्रथमः नियन्त्रित–प्रवेश–युक्तः (Access-controlled) हरित–क्षेत्र–निर्मितः उच्च–गति–एक्सप्रेस–मार्गः भविष्यति। अस्य उद्देश्यं मेघालय–राज्यस्य शिलोङ्ग–नगरस्य असम–राज्यस्य सिलचर–स्थित–पञ्चग्राम–क्षेत्रेण सह संयोजनं महत्त्वपूर्णतया सुदृढीकरणम् अस्ति।

परियोजनाया: पूर्णतायां प्राप्तायां, गुवाहाटी–सिलचर–नगरयोः मध्ये यात्रासमयः प्रायः ८.५–होराभ्यः पञ्च–होरापर्यन्तम् न्यूनः भविष्यति इति अपेक्षा अस्ति। अनेन क्षेत्रे आर्थिक–क्रियाकलापानां तथा सीमापार–वाणिज्यस्य अपि प्रवर्धनं भविष्यति।

प्रधानमन्त्री सिलचर–नगरे राष्ट्रीय–मार्ग–३०६ (NH-306) उपरि निर्मीयमाणस्य उच्च–मार्गस्य (एलिवेटेड–कॉरिडोरस्य) अपि भूमिपूजनम् अकरोत्। एषः मार्गः सिलचर–नगरे कैपिटल–पॉइण्ट समीपस्थात् ट्रङ्क–मार्गात् रङ्गिरखारी–पॉइण्ट (प्रथम–चरणः) पर्यन्तं निर्मास्यते।₹५६४.५०–कोटि–रूप्यक–व्ययेन ३.५–किलोमीटर–दीर्घः उड्डयन–सेतु (फ्लायओवर) निर्मास्यते। अस्य सह ६.९–किलोमीटर–दीर्घा सेवा–मार्गाः अपि निर्मीयन्ते।

अस्या: परियोजनाया: मुख्य–लक्ष्यम् नगरस्य अत्यधिक–व्यस्तेषु मार्गेषु यातायातसम्मर्दस्य न्यूनीकरणम् अस्ति। तथा च मिजोरम, त्रिपुरा, मणिपुरादि समीपस्थ–राज्यैः सह संयोजनस्य सुदृढीकरणम् अपि अस्य उद्देश्यम् अस्ति।स्वप्रवास–काले प्रधानमन्त्री मोदी करीमगञ्ज–जनपदस्य पाथरकाण्डी–क्षेत्रे कृषि–महाविद्यालयस्य अपि शिलान्यासं कृतवान्।

८८–हेक्टेयर–भूमौ ₹१२२–कोटि–रूप्यक–व्ययेन अस्य प्रथम–चरणस्य निर्माण–कार्यं सम्पन्नं भविष्यति।

ज्ञातव्यं यत् प्रधानमन्त्री १३ मार्चमासे गुवाहाटी–नगरम् आगतः आसीत्। तस्य प्रवासस्य प्रथमदिने सः प्रायः ₹२४,२५०–कोटि–रूप्यक–मूल्यस्य परियोजनानां उद्घाटनं कृतवान्। सिलचर–नगरस्य अम्बिकापुर–क्षेत्रे आयोजितात् विशाल–जनसभा–स्थलात् प्रधानमन्त्री आभासी–माध्यमेन एतासां परियोजनानां शिलान्यासं कृतवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता