असम–प्रवासस्य द्वितीयदिवसे अद्य प्रधानमन्त्रिणा बराक–घाट्यै पुरस्कारं भविष्यति
सिल्चरनगरम्, १४ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी स्वस्य असम–प्रवासे द्वितीयदिवसे शनिवासरे बराक–घाटिं गमिष्यति। अस्मिन्काले प्रधानमन्त्री प्रायः २३,५५० कोटिरूप्यकाणां विभिन्न–परियोजनानां भूमिपूजनं आधारशिलां च स्थापयिष्यति। प्रधानमंत्री
गुवाहाटीः गुवाहाटी में शुक्रवार को आयोजित कार्यक्रम में चाय जनजाति समुदाय के एक व्यक्ति को भूमि का पट्टा प्रदान करते प्रधानमंत्री नरेन्द्र मोदी


सिल्चरनगरम्, १४ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी स्वस्य असम–प्रवासे द्वितीयदिवसे शनिवासरे बराक–घाटिं गमिष्यति। अस्मिन्काले प्रधानमन्त्री प्रायः २३,५५० कोटिरूप्यकाणां विभिन्न–परियोजनानां भूमिपूजनं आधारशिलां च स्थापयिष्यति। प्रधानमंत्री एकस्यां जनसभायामपि भाषणं दास्यति।

एतस्मात् पूर्वं प्रधानमन्त्री शुक्रवासरे द्विदिवसीय-असम–प्रवासस्य कृते गुवाहाटीम् आगतः। अस्मिन्काले प्रधानमन्त्रिण: कोकराझार–कार्यक्रमः निरस्त: अभवत्। गुवाहाट्यादेव कोकराझार–कार्यक्रमं प्रधानमन्त्री वर्चुअल–माध्यमेन संभाषितवान्। सहैव विभिन्न–कार्यक्रमाणां उद्घाटनं शिलान्यासं च कृतम्। अस्मिन्काले सायं अन्यस्मिन् कार्यक्रमे प्रधानमन्त्रिणा चाय–जनजाति–समुदायाय भूमेः कर्गदं प्रदत्तम्।

हिन्दुस्थान समाचार / अंशु गुप्ता