धर्मशालां प्राप्नोत् उप राष्ट्रपति सीपी राधाकृष्णन्, गगलविमानस्थानके जातं स्वागतम्
धर्मशाला, 14 मार्चमासः (हि.स.)। सी. पी. राधाकृष्णन, यः भारतस्य उपराष्ट्रपतिः अस्ति, शनिवासरे प्रातःकाले हिमाचल प्रदेश राज्यस्य कांगड़ा जनपदस्य दौराय धर्मशाला नगरं प्राप्तवान्। गगलविमाधनस्थानके राज्यपालः कविंदर गुप्ता, चंद्र कुमार (हिमाचलप्रदेश
गगल एयरपोर्ट पर उपराष्ट्रपति का स्वागत करते हुए।


गगल एयरपोर्ट पर गार्ड ऑफ ऑनर देते हुए।


धर्मशाला, 14 मार्चमासः (हि.स.)।

सी. पी. राधाकृष्णन, यः भारतस्य उपराष्ट्रपतिः अस्ति, शनिवासरे प्रातःकाले हिमाचल प्रदेश राज्यस्य कांगड़ा जनपदस्य दौराय धर्मशाला नगरं प्राप्तवान्।

गगलविमाधनस्थानके राज्यपालः कविंदर गुप्ता, चंद्र कुमार (हिमाचलप्रदेशस्य कृषिमन्त्री), जय राम ठाकुर (नेता प्रतिपक्षः) तथा अन्ये गणमान्य-व्यक्तयः तस्य हार्दिकं स्वागतं कृतवन्तः। उपराष्ट्रपतेः आगमनसमये विमानतले तस्मै गार्ड-ऑफ-ऑनर अपि प्रदत्तः।

उपराष्ट्रपतिः धर्मशाला नगरे स्थितस्य हिमाचल प्रदेश केंद्रीय विश्वविद्यालय इत्यस्य नवमे दीक्षान्त-समारोहे सहभागी अभवत्। उपराष्ट्रपतेः पदभार-ग्रहणानन्तरं सी. पी. राधाकृष्णन इत्यस्य हिमाचल प्रदेश राज्ये अयं प्रथमम् आगमनम् अस्ति।

हिन्दुस्थान समाचार