Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १४ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे पश्चिम–बङ्गाल–राज्ये सत्तारूढम् अखिल–भारतीय–तृणमूल–काङ्ग्रेस–सर्वकारम् उद्दिश्य तीव्रं प्रहारं कृत्वा अवदत् यत् अधुना राज्यस्य जनानां हृदये एषा भावना दृढतया स्थापिताऽस्ति यत् बङ्गालस्य “निर्मम–सर्वकारस्य” अन्तः अवश्यं भविष्यति। सः अवदत् यत् राज्ये परिवर्तनस्य वातावरणं निर्मितम् अस्ति तथा तं कश्चित् अपि न निरोद्धुं शक्नोति।
प्रधानमन्त्री कोलकाता–नगरे स्थिते ब्रिगेड–संचलन-प्राङ्गणे भारतीय–जनता–पक्षस्य विशाल–सभा–कार्यक्रमे जनसमूहं सम्बोधयन् एतत् उक्तवान्। सः स्वभाषणस्य आरम्भे बाङ्ग्ला–भाषया जनान् अभिवाद्य अवदत्—“पश्चिम–बङ्गालस्य मम प्रियाः भ्रातरः भगिन्यः च, अहं हृदयस्य गम्भीरात् भवन्तः हार्दिकाः शुभाशयाः ददामि।”
प्रधानमन्त्री अवदत् यत् ब्रिगेड–संचलन-प्राङ्गणे समागतः विशाल–जनसमूहः अस्य प्रमाणम् अस्ति यत् अद्य बङ्गालप्रदेशः किं चिन्तयति। जनानाम् उत्साहः तथा उमङ्गः स्पष्टतया दर्शयति यत् राज्ये परिवर्तनस्य इच्छा अत्यन्तं दृढा जाता अस्ति।
मोदी अवदत् यत् ब्रिगेड–प्राङ्गणस्य इतिहासः साक्षी अस्ति यत् यदा–यदा बङ्गालराज्यं राष्ट्राय नूतनां दिशां दत्तवान्, तदा तदा एतत् प्राङ्गणं बङ्गालस्य स्वरः अभवत्। आङ्ग्ल–शासनस्य विरुद्धं अस्मात् एव प्राङ्गणात् उत्थिता वाणी सम्पूर्णे देशे क्रान्तिरूपेण परिवर्तिता आसीत् तथा अन्ततः आङ्ग्ल–शासनस्य अत्याचारः लुण्ठनं च समाप्तम् अभवत्।
प्रधानमन्त्री अवदत् यत् अद्य पुनः अस्मात् एव प्राङ्गणात् “नूतन–बङ्गाल–क्रान्तेः” घोषः आरब्धः। बङ्गाले परिवर्तनस्य सन्देशः अधुना भित्तिषु लिखितः इव दृश्यते तथा जनानां हृदये अपि अंकितः अस्ति। सः अवदत् यत् अधुना बङ्गालात् “महाजङ्गलराजस्य” अन्तः भविष्यति तथा राज्ये विधेः शासनम् प्रतिष्ठापितं भविष्यति। राज्यस्य सर्वतः एषा ध्वनिः श्रूयते—“भाजपा–सर्वकारः अपेक्षितः, अद्यैव समयः।”
प्रधानमन्त्री आरोपं कृतवान् यत् तृणमूल–काङ्ग्रेस–पक्षः अस्मिन् सभायां आगच्छतः जनान् “चौराः” इति उक्त्वा अपमानितवान्। सः अवदत् यत् वास्तविकः चौरः कः इति बङ्गालस्य जागरूकाः जनाः सम्यक् जानन्ति।
मोदी अवदत् यत् स्वस्य सत्ताया: अन्तं दृष्ट्वा राज्यस्य सर्वकारः अत्यन्तं व्याकुलः अभवत्। तेन आरोपः कृतः यत् अनेक–प्रयत्नानां कृत्वापि तृणमूल–काङ्ग्रेस–सर्वकारः जनान् अस्यां सभायां सहभागी भवितुं न निरोद्धुं शक्तवान्।
प्रधानमन्त्री अवदत् यत् बङ्गाले “महाजङ्गलराजस्य” आरम्भकर्तॄणां गणना–प्रारम्भः (काउंटडाउन) आरब्धः अस्ति तथा सः दिवसः दूरः नास्ति यदा राज्ये पुनः विधेः शासनं प्रतिष्ठापितं भविष्यति। सः अवदत् यत् यः कश्चित् विधिं भङ्क्ते अथवा अत्याचारं करोति, सः न क्षम्यते तथा दोषिभ्यः निश्चितं लेखं गृहीतं भविष्यति।
प्रधानमन्त्री अवदत् यत् परिवर्तनस्य एषा आन्धी अधुना निवारणीया नास्ति। सः अवदत् यत् भाजपा–दलस्य तथा एनडीए–गठबन्धनस्य उपरि महिषासुर–मर्दिन्याः आशीर्वादः अस्ति तथा ते महानां विभूतीनां स्वप्नानां अनुरूपं बङ्गालं निर्मातुं प्रतिबद्धाः सन्ति।
सः रामकृष्ण–परमहंस, स्वामी–विवेकानन्दः, सुभाष–चन्द्र–बोसः, बङ्किम–चन्द्र–चट्टोपाध्यायः, रवीन्द्रनाथ–ठाकुरः, ईश्वर–चन्द्र–विद्यासागरः, खुदीराम–बोसः, श्यामा–प्रसाद–मुखर्जी इत्यादीनां महापुरुषाणां नामानि उल्लिख्य अवदत् यत् एतेषां महापुरुषाणां यः बङ्गालः स्वप्नितः आसीत्, तस्य निर्माणं भाजपा–सर्वकारः करिष्यति।
प्रधानमन्त्री आरोपं कृतवान् यत् तृणमूल–काङ्ग्रेस–सर्वकारः न स्वयम् कार्यं करोति, न च अन्यान् कार्यं कर्तुं ददाति। राज्ये केन्द्र–सर्वकारस्य अनेकाः योजनाः सम्यक् रूपेण कार्यान्विताः न भवन्ति। सः उक्तवान् यत् यदि तृणमूल–काङ्ग्रेस–सर्वकारः अपसारितः भविष्यति, तर्हि प्रत्येकं निर्धनः पक्व–गृहं प्राप्तुं आरभ्स्यते, एषा “मोदी–गारण्टी” इति।
मोदी अवदत् यत् पूर्वं काङ्ग्रेस–पक्षः, अनन्तरं साम्यवादी–पक्षः, ततः अधुना तृणमूल–काङ्ग्रेस–सर्वकारः— एते सर्वे राज्ये शासनं कृतवन्तः, किन्तु विकासस्य गतिः शनैः शनैः अवरुद्धा जाता। तेन आरोपः कृतः यत् एतेषां सर्वकाराणां काले उद्योगाः निरुद्धाः, रोजगार–अवसराः अपि न्यूनाः अभवन्।
प्रधानमन्त्री अवदत् यत् तृणमूल–काङ्ग्रेस–सर्वकारस्य काले राज्ये नियुक्तयः मुक्तरूपेण विक्रीयन्ते। अधुना समयः आगतः यत् एषा स्थिति परिवर्तनीया तथा सुनिश्चितं करणीयं यत् बङ्गालस्य यूनां राज्ये एव रोजगार–अवसराः प्राप्नुयुः।प्रधानमन्त्री अवदत् यत् कदाचित् कालः आसीत् यदा बङ्गालः सम्पूर्णस्य राष्ट्रस्य आर्थिक–औद्योगिक–प्रगतौ अग्रणी आसीत्। किन्तु अधुना स्थितिः एषा अस्ति यत् अत्र युवानः न समुचिताः शिक्षायाः अवसराः प्राप्यन्ते, न च पर्याप्ताः रोजगार–अवसराः। अस्मात् कारणात् अनेके युवानः कार्यस्य अन्वेषणे अन्येषु राज्येषु गन्तुं विवशाः भवन्ति।
अन्ते प्रधानमन्त्री अवदत् यत् भाजपा–दलस्य लक्ष्यं एतादृशं बङ्गालं निर्मातुम् अस्ति यत्र यूनां कृते शिक्षा, रोजगारः उत्तम–भविष्यस्य च पर्याप्ताः अवसराः स्युः तथा राज्यं पुनः राष्ट्रस्य प्रगतौ अग्रणी भूमिका निर्वहेत्।
हिन्दुस्थान समाचार / अंशु गुप्ता