प्रधानमन्त्री नरेन्द्र–मोदी पश्चिम–बङ्गालाय १८,६८०–कोटि–रूप्यकाणां मार्ग–रेल–पत्तन–परियोजनानां उपहारं दत्तवान्
कोलकातानगरम्, १४ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी शनिवासरे कोलकाता–नगरस्य यात्राकाले पश्चिम–बङ्गाल–राज्याय मार्ग–रेल–पत्तन–सम्बद्धानां महत्त्वपूर्णानां संयोजकता–परियोजनानां रूपेण प्रायः १८,६८०–कोटि–रूप्यकाणां मूल्यस्य विकास–परियोजनाना
बंगाल में विकास परियोजनाओं का शिलान्यास करते पीएम मोदी


कोलकातानगरम्, १४ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी शनिवासरे कोलकाता–नगरस्य यात्राकाले पश्चिम–बङ्गाल–राज्याय मार्ग–रेल–पत्तन–सम्बद्धानां महत्त्वपूर्णानां संयोजकता–परियोजनानां रूपेण प्रायः १८,६८०–कोटि–रूप्यकाणां मूल्यस्य विकास–परियोजनानां उपहारं दत्तवान्। एताः परियोजनाः राज्ये आधारभूत–संरचनायाः विस्ताराय, औद्योगिक–विकासाय तथा उत्तम–परिवहन–व्यवस्थायाः स्थापने महत्त्वपूर्णं पदम् इति मन्यन्ते। अस्याः घोषणायाः अग्रिम–विधानसभा–निर्वाचनस्य पूर्वं राजनैतिक–दृष्ट्या अपि विशेषं महत्त्वम् अस्ति।

स्वीय–सम्बोधने प्रधानमन्त्री मोदी अवदत् यत् पश्चिम–बङ्गाल–प्रदेशात् भारतस्य विकासस्य नूतना कथा लिख्यते, तथा केन्द्रीय–सर्वकारः राज्ये आधुनिक–संयोजकता–जालस्य निर्माणे विशेषं ध्यानं ददाति।

प्रधानमन्त्रिणा खड़गपुर–मोरेग्राम–आर्थिक–परिसरस्य २३१–किलोमीटर–दीर्घस्य मार्गस्य पञ्च–खण्डानां शिलान्यासः कृतः। एषा चतुर्लेन–मार्ग–परियोजना पूर्णा भवति चेत् खड़गपुरात् उत्तर–बङ्गाल–प्रदेशं प्रति यात्रां सुकरां करिष्यति। अनुमानतः अनेन प्रायः १२०–किलोमीटर दूरी न्यूनतां गमिष्यति तथा यात्राकालः सप्त–अष्ट–होराः यावत् न्यूनीभविष्यति।

एषः परिसरः पश्चिम–मेदिनीपुर, बांकुड़ा, हुगली, पूर्व–बर्दवान, बीरभूम तथा मुर्शिदाबाद इत्यादिषु महत्त्वपूर्णेषु जनपदेषु गच्छति। सः राष्ट्रीय–राजमार्गान् (एनएच) १६, १९, १४ तथा १२ परस्परं संयोज्य सुदृढं परिवहन–जालं निर्मास्यति। अनेन वस्तु–परिवहनस्य वेगः वर्धिष्यते तथा औद्योगिक–क्रियाकलापाः अपि प्रोत्साहनं प्राप्स्यन्ति।

तदतिरिक्तं पश्चिम–बङ्गालस्य बीरभूम–जनपदे ५.६–किलोमीटर–दीर्घस्य दुबराजपुर–बाइपास–मार्गस्य तथा कांगसबती–शिलाबती–नद्योरुपरि नूतनयोः चतुर्लेन–सेत्वोः अपि शिलान्यासः कृतः। एताभिः परियोजनाभिः स्थानीय–यातायातस्य सम्मर्दः न्यूनीभविष्यति तथा मार्ग–सुरक्षा वर्धिष्यते इति अपेक्षा अस्ति।रेल–क्षेत्रे अपि कतिपयाः महत्त्वपूर्णाः परियोजनाः उद्घाटिताः। प्रधानमन्त्री मोदी पुरुलिया–नगरात् आनन्द–विहार–टर्मिनल–पर्यन्तं नूतनां द्रुत–रेलयानं ध्वज–दर्शनपूर्वकं प्रेषितवान्, येन पश्चिम–बङ्गालस्य राष्ट्रिय–राजधानी–क्षेत्रेण सह रेल–संयोजनं सुदृढं भविष्यति।

अमृत–स्टेशन–योजनायाः अन्तर्गतं राज्यस्य षट् रेल–स्थानकानि—कामाख्यागुड़ी, अनारा, तमलुक, हल्दिया, बाराभूम तथा सिउड़ी—अद्यतन–रूपेण आधुनिकीक्रियन्ते। एतेषु स्थानकेषु यात्रिणां सुख–सौविध्यानि वर्धितानि सन्ति, येन तेषां यात्रा–अनुभवः उत्तमः भवेत्।

प्रधानमन्त्रिणा बेलदा–दांतन–मध्यस्थितस्य १६–किलोमीटर–दीर्घस्य तृतीय–रेल–मार्गस्य राष्ट्राय समर्पणं कृतम्। तथैव कलाईकुंडा–कानिमोहुली–खण्डयोः मध्ये स्वचालित–संकेत–प्रणाली अपि राष्ट्राय समर्पिता। एताभिः परियोजनाभिः रेल–यातायातस्य क्षमता वर्धिष्यते तथा रेलयानानां गमनागमनं अधिकं सुरक्षितं समयबद्धं च भविष्यति।

कोलकाता तथा हल्दिया–पत्तनयोः सम्बद्धासु परियोजनासु अपि विशेषं ध्यानं दत्तम्। प्रधानमन्त्री हल्दिया–डॉक–परिसरे द्वितीय–बर्थ–संख्यायाः यंत्रीकरणस्य उद्घाटनं कृतवान्, येन मालस्य आरोहण–अवरोहण–क्रिया शीघ्रं पर्यावरण–अनुकूलतया च कर्तुं शक्यते। तदनन्तरं खिदिरपुर–डॉकस्य पुनरुद्धारः, हल्दिया–पत्तने पञ्चम–बर्थ–संख्यायाः यंत्रीकरणम्, तथा कोलकाता–स्थितस्य बैस्क्यूल–सेतोष्य नवीनीकरणम् इत्येतासां परियोजनानां अपि शिलान्यासः कृतः।

नगरस्य अन्तर्गतं नदी–क्रूज–संस्थात्रस्य तथा नदी–पर्यटन–सौविध्यानां निर्माणस्य आधारशिला अपि स्थापिता, येन गङ्गा–नद्याः तटे पर्यटन–क्रियाकलापानां विकासः सम्भाव्यते।

एताः परियोजनाः पश्चिम–बङ्गालस्य अर्थव्यवस्थायै अत्यन्तं महत्त्वपूर्णाः मन्यन्ते। उत्तम–मार्ग–रेल–संयोजनेन उद्योगानां अपक्व–द्रव्यस्य तथा सिद्ध–उत्पादानां परिवहने सौविध्यं भविष्यति। पत्तनानां क्षमता वर्धनेन निर्यात–आयात–क्रियाः शीघ्रतराः भविष्यन्ति। एताभ्यां निर्माण–परिचालन–क्रियाभ्यां स्थानीयस्तरे रोजगार–अवसराः अपि वर्धिष्यन्ति। उत्तमा संयोजकता पर्यटन–क्षेत्रं अपि विकासाय सहायकं भविष्यति।

विधानसभा–निर्वाचनस्य समीपे स्थिते सति एताः परियोजनाः राजनैतिक–दृष्ट्या अपि अवलोक्यन्ते। राजनैतिक–विश्लेषकाः मन्यन्ते यत् केन्द्रीय–सर्वकारः एतेषां विकास–कार्याणां माध्यमेन राज्ये स्वस्य विकास–प्रतिमां सुदृढां कर्तुं प्रयतते।

स्वीय–भाषणे प्रधानमन्त्री संयोजकता–व्यवस्थां विकासस्य आधारम् इति निर्दिश्य अवदत् यत् उत्तम–मार्ग–रेल–पत्तन–जालेन सामान्य–जनानां जीवन–स्तरे सकारात्मकं परिवर्तनं भविष्यति।

समग्रतया दृष्ट्वा प्रधानमन्त्री नरेन्द्र–मोदिना आरब्धाः एताः परियोजनाः पश्चिम–बङ्गाल–राज्ये आधारभूत–संरचनां सुदृढीकर्तुं, औद्योगिक–निवेशं आकर्षयितुं तथा क्षेत्रीय–सन्तुलित–विकासं प्रोत्साहयितुं महत्त्वपूर्णाः मन्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता