Enter your Email Address to subscribe to our newsletters

कोलकाता, 14 मार्चमासः (हि.स.)। नरेन्द्र मोदिनः कोलकाता नगरे स्थिते ऐतिहासिके ब्रिगेड परेड मैदान इत्यत्र आयोजितायां विशाल-जनसभायां सहभागीभवितुं सुंदरबन क्षेत्रस्य दूरस्थप्रदेशेभ्यः भारतीय जनता पार्टी समर्थकाः शनिवासरे प्रातःकाले एव यात्रां प्रारब्धवन्तः।
सुन्दरबन-प्रदेशस्य सागर द्वीप, नामखाना तथा पाथरप्रतिमा इत्यादिभ्यः द्वीप-प्रदेशेभ्यः बहुसंख्यकाः कार्यकर्तारः समर्थकाः च प्रथमं नावाभिः नद्यः अतिक्रम्य मुख्यभूमिं प्राप्तवन्तः, ततः परं ते कोलकातानगरं प्रति अग्रे गतवन्तः।
सुन्दरबन-प्रदेशस्य भौगोलिक-परिस्थितेः कारणात् तत्र जलमार्गः एव आवागमनस्य प्रमुखं साधनम् अस्ति। अतः अनेकैः समर्थकैः सभास्थलं समये प्राप्तुं प्रातः अत्यन्तं शीघ्रं यात्रारम्भः कृतः।
स्थानीयदृश्येषु बहुसंख्यकाः जनाः दलस्य ध्वजान् धारयन्तः नावासु आरूढाः दृश्यन्ते स्म। भारतीय जनता पार्टी नेतारः वदन्ति यत् राज्यस्य दूरस्थ-ग्रामीण-प्रदेशेभ्यः आगच्छन्ती एषा जनसमूहः आगामि-राजनैतिक-स्पर्धाभ्यः पूर्वं समर्थकानां वर्धमानम् उत्साहं दर्शयति।
सुन्दरबन-प्रदेशात् आगतः एकः समर्थकः अवदत्— “वयं अद्य नावया गच्छामः, यतः नरेन्द्र मोदी ब्रिगेड-सभायां आगच्छति। वयं तस्य भाषणं श्रोतुम् इच्छामः। वर्तमान-राज्य-सरकारस्य काले बहवः भ्रष्टाचाराः जाताः। जनानां कृते प्रेषितः धान्य-चावलः अपि घोटालेषु नष्टः। वयं 2026 तमे वर्षे परिवर्तनम् इच्छामः।”
अन्यः अपि समर्थकः अवदत् यत् अस्मिन् सभायां सहभागीभवितुं विभिन्नप्रदेशेभ्यः विविध-समाजेभ्यः जनाः एकत्र आगच्छन्ति।
प्रधानमन्त्रिणः नरेन्द्र मोदिनो ब्रिगेड-परेड-क्रीडांगणस्थं भाषणं अस्मिन् वर्षे राज्यस्य महानां राजनैतिक-सभानां मध्ये अन्यतमं मन्यते। एषा सभा आगामि-विधानसभानिर्वाचनात् पूर्वं भारतीय जनता दलस्य राज्यव्यापि-जनसंपर्क-अभियानस्य समापनरूपेण अपि परिगण्यते।
स्वदौर्यात्रायां प्रधानमन्त्री अनेकाः महत्त्वपूर्णाः आधारभूत-संरचना-परियोजनाः उद्घाटयिष्यति तथा तासां शिलान्यासं करिष्यति। तासु राज्ये संपर्क-व्यवस्थां सुदृढीकर्तुं प्रमुखाः राष्ट्रिय-राजमार्ग-परियोजनाः अपि अन्तर्भवन्ति।
दलनेतृत्वं अस्यां सभायां विशाल-जनसमूहस्य आगमनस्य अपेक्षां करोति। राज्यस्य विभिन्नजनपदेभ्यः समर्थकाः प्रातःकालात् एव कोलकातानगरं प्रति आगन्तुं आरब्धवन्तः।
हिन्दुस्थान समाचार