गुरु हर राय साहिबजेः जीवन करुणा, सेवापर्यावरणसंरक्षणयोः संदेशं ददाति - भैयाजी जोशी
समालखा, 14 मार्चमासः (हि.स.)। सिखसम्प्रदायस्य सप्तमगुरोः गुरु हर राय गुरुगद्दीदिवसस्य अवसरे शनिवासरे हरियाणाराज्यस्य समालखा नगरे सिखपर्यावरणदिवसः आचरितः। अस्मिन् अवसरे राष्ट्रीय स्वयंसेवक संघ इत्यस्य अखिलभारतीयकार्यकारिणी सदस्यः सुरेश जोशी उपाख्य
समालखा में सिख पर्यावरण दिवस मनाया के अवसर पर राष्ट्रीय स्वयंसेवक संघ के अखिल भारतीय कार्यकारिणी सदस्य सुरेश भैया जी जोशी


समालखा, 14 मार्चमासः (हि.स.)।

सिखसम्प्रदायस्य सप्तमगुरोः गुरु हर राय गुरुगद्दीदिवसस्य अवसरे शनिवासरे हरियाणाराज्यस्य समालखा नगरे सिखपर्यावरणदिवसः आचरितः। अस्मिन् अवसरे राष्ट्रीय स्वयंसेवक संघ इत्यस्य अखिलभारतीयकार्यकारिणी सदस्यः सुरेश जोशी उपाख्य भैयाजी जोशी समाजं प्रकृतिसंरक्षणाय अधिकाधिकवृक्षारोपणस्य च सन्देशं दत्तवान्।

अस्मिन् अवसरे तेन स्वयम् अपि पौधारोपणं कृत्वा पर्यावरणसंरक्षणस्य प्रति समाजं प्रेरितवान्। सः उक्तवान् यत् गुरु हर राय इत्यस्य जीवनं करुणाया: सेवाया: तथा प्रकृतेः प्रति गाढसम्मानस्य अद्वितीयं उदाहरणम् अस्ति।

सः अपि उक्तवान् यत् गुरु हर राय साहिबस्य जन्म 16 जनवरी 1630 तमे वर्षे कीरतपुर साहिब इत्यत्र अभवत्। सः षष्ठगुरोः गुरु हरगोबिन्द पौत्रः आसीत्। सः 1644 तमे वर्षे केवलं चतुर्दशवर्षीयावस्थायां गुरुगद्द्यां विराजमानः अभवत्। स्वजीवनकाले सः मानवसेवया सह प्रकृतिपर्यावरणसंरक्षणाय विशेषमहत्त्वं दत्तवान्। तेन औषधीयवनस्पतीनां जडीबूटीनां च विशालाः उपवनाः विकसिताः तथा आवश्यकजनानां कृते औषधालयाः अपि स्थापिताः।

अस्मिन् अवसरे भैयाजी जोशी महोदयः अखिल भारतीय प्रतिनिधि सभा प्रदर्शनीम् अपि अवलोकितवान्। एषा प्रदर्शनी चतुर्षु प्रमुखभागेषु विभक्ता अस्ति— हरियाणाराज्यस्य प्रेरणादायिनः महापुरुषाः, भगवद्गीता आधारितप्रदर्शनी, सरस्वती नदी सम्बन्धिता ऐतिहासिकसांस्कृतिकप्रस्तुति:, तथा गुरु तेग बहादुर इत्यस्य 350 तमे शहीदीवर्षे तस्य जीवनबलिदानयोः आधारेण निर्मिता हस्तनिर्मितप्रदर्शनी।

एतदतिरिक्तं प्रदर्शनीमध्ये हरियाणाराज्ये संघाय जीवनं समर्पितवन्तां महापुरुषाणां योगदानम् अपि प्रदर्शितम्।

अन्ते तेन उक्तं यत् गुरु हर राय इत्यस्य जीवनं अस्मान् प्रेरयति यत् वयं सेवा करुणा तथा प्रकृतेः प्रति सम्मानभावेन समाजस्य मानवतायाः च सेवां कुर्मः तथा आगामिपीढीनां कृते पर्यावरणसंरक्षणस्य दृढसंकल्पं गृह्णीमः।

उल्लेखनीयम् अस्ति यत् 14 मार्च दिने गुरु हर राय गुरुगद्दीदिवसस्य अवसरे सिखपर्यावरणदिवसः प्रति वर्षम् आचर्यते।

------------

हिन्दुस्थान समाचार