Enter your Email Address to subscribe to our newsletters

वाराणसी,14 मार्चमासः (हि.स.)।
वाराणसी नगरे उत्तर प्रदेश राज्ये स्थिते स्वामी विवेकानंद राजकीयचिकित्सालये अधुना दिव्याङ्ग-प्रमाणपत्राणि निर्मीयन्ते। अस्य विषयस्य अनुमोदनार्थं मुख्य-चिकित्सा-अधिकाऱिणा आधिकारिक-पत्रं निर्गतम्। शनिवासरे एषा सूचना राज्य सलाहकार बोर्ड दिव्यांगजन सशक्तिकरण विभाग सदस्येन डॉ. उत्तम ओझा प्रदत्ता।
डॉ. उत्तम ओझा अवदत् यत् जनपद-दिव्याङ्ग-परामर्श-बोर्डस्य सम्पन्नायां गोष्ठ्यां तेन अस्मिन् चिकित्सालये पुनः प्रमाणपत्र-निर्गमनस्य आवश्यकता प्रस्तुतिता आसीत्। मुख्य-चिकित्सा-अधिकाऱिणा निर्गते पत्रे निर्दिष्टम् अस्ति यत् प्रतिमासस्य तृतीय-चतुर्थ-गुरुवासरे पूर्वाह्णे 10 वादनात् अपराह्णे 2 वादनपर्यन्तं स्वामी विवेकानंद राजकीय अस्पताल इत्यत्र दिव्याङ्ग-प्रमाणपत्रं निर्मीयते।
डॉ. उत्तम ओझा अवदत् यत् COVID-19 महामारी-कालात् पूर्वम् अपि अस्मिन् चिकित्सालये दिव्याङ्ग-प्रमाणपत्राणि निर्मीयन्ते स्म। किन्तु महामारी-समये तदनन्तरं च एषा सुविधा स्थगिता आसीत्। तेन कारणेन काशी दक्षिण-भागे निवसन्तः दिव्याङ्ग-जनाः प्रमाणपत्रार्थं पं. दीनदयाल उपाध्याय मंडलीय चिकित्सालय अथवा कबीरचौरा मंडलीयचिकित्सालये गन्तुं बाध्याः आसन्, येन तेषां बहु-क्लेशः जायते स्म। अस्य विषये तेन जिला दिव्यांग सलाहकार बोर्ड इत्यस्य बैठके मुख्य-विकास-अधिकाऱिणं प्रति अनुरोधः कृतः आसीत्।
अन्ते डॉ. उत्तम ओझा अस्य कार्यस्य सफलतायै जनपदस्य जिलाधिकारी, मुख्य-विकास-अधिकारी, मुख्य-चिकित्सा-अधिकारी तथा दिव्याङ्गजन-विभाग-अधिकारिणां कृते कृतज्ञतां व्यक्तवान्।
---------------
हिन्दुस्थान समाचार