Enter your Email Address to subscribe to our newsletters

-विश्व शांतेः कामनया विश्वनाथ धाम्नो गंगा द्वारेण विहिता मां गंगायाः आरती
वाराणसी, 14 मार्चमासः (हि.स.)।
वाराणसी नगरे, यत् उत्तर प्रदेश राज्यस्य प्रसिद्धा धार्मिक-नगरी अस्ति, शनिवासरे नमामि गंगे इत्यस्य सदस्याः श्रीकाशी विश्वनाथ धाम इत्यस्य गंगा द्वार स्थले ईरान तथा इज़राइल देशयोः मध्ये वर्तमानस्य युद्धस्य निरोधार्थं वैश्विक-शान्त्यर्थं च विशेष-प्रार्थनां कृतवन्तः।
युद्ध-निरोधार्थं ते श्री काशी विश्वनाथ मंदिर इत्यत्र भगवतः पूजनं कृत्वा गंगा मातुः आरतीं कृत्वा अर्जीम् अर्पितवन्तः।
नमामि गंगे स्वयंसेवकाः कराञ्जलिं बद्ध्वा भगवन्तं प्रार्थितवन्तः यत् उभयोः देशयोः मध्ये शान्तिः स्थाप्यताम् तथा निर्दोष-जनानां रक्षणं क्रियताम्। युद्ध-निरोधार्थं शान्तिकामनया द्वादश-ज्योतिर्लिङ्ग-पाठः अपि कृतः।
अस्मिन् अवसरः वक्तारः उक्तवन्तः यत् विश्व-शान्त्यर्थं अस्य प्रार्थनायाः उद्देश्यं संसारात् युद्धं द्वेषं पीडां च निवार्य प्रेम, सौहार्दं करुणां च स्थापयितुम् अस्ति। वयं गंगा मातरं प्रति प्रार्थितवन्तः यत् समस्ते विश्वे, प्रकृतेः सर्वेषु तत्त्वेषु, सर्वेषां मनुष्याणां हृदयेषु च शान्तिः प्रसरेत्। सर्वेषां राष्ट्राणां नेतारः हिंसां त्यक्त्वा सत्यस्य प्रेम्णः च मार्गं स्वीकुर्युः, येन पृथिव्यां यथार्था एकता भ्रातृत्वं च स्थापितुं शक्येत।
अस्यां प्रार्थनायां राजेश शुक्ला (नगर-निगमस्य स्वच्छता-ब्राण्ड-एम्बेसडरः), अनिकेत, अनुराधा तनय, पुष्कर पाण्डेय, उमंगः, अमन मिश्रा, पूनम, शैलेश, प्रेरणा इत्यादयः अपि सहभागित्वेन उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार