Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 15 मार्चमासः (हि.स.)।
उत्तरप्रदेशस्य मुरादाबादजनपदे दीनदयालनगरस्थिते वेदमन्दिर आर्यसमाजे त्रिदिवसीयः वार्षिकोत्सवः रजतजयन्तीसमारोहश्च रविवासरे शुभारम्भं प्राप्तवान्।
कार्यक्रमस्य आरम्भः यज्ञेन अभवत्। शशाङ्क चौधरी, वर्षा चौधरी, उमेश आर्यः, अर्चना आर्यः इत्यादीनां यजमानत्वे आर्यगुरुकुल नोएडास्थितस्य प्राचार्यः आचार्य जयेन्द्र यज्ञं सम्पन्नवान्।
नोएडानगरात् आगता भजनोपदेशिका संगीता आर्या स्वैः प्रभुभक्तिपूर्णैः भजनैः सर्वान् भक्तिरसे निमग्नान् अकरोत्।
अस्य कार्यक्रमस्य अध्यक्षता महेन्द्रपालसिंह यादवेन कृता।
कार्यक्रमस्य संयोजकौ वैदिकपुरोहितः पण्डित लालकिशोर शास्त्री तथा उमेश आर्य, संजय आर्य च आसन्।
अस्मिन् अवसरे उपदेशचन्द्र अग्रवालः, उमेशचन्द्रः, सीताप्रकाश, पुनीत रस्तोगी, संजय अरोरा, सचिन अग्रवाल, कपिल गुप्ता, मथुराप्रसाद, प्रदीप विश्नोई, पुष्पा आर्य, अर्चना आर्य, शिवन्या, शन्नो गुप्ता, कमलेश गोयल, अजब सिंह आर्य, विजयकुमार अग्रवाल, विनोद मुनि, भगवान सिंह, पूनम शास्त्री, नरेश अग्रवाल, अजीत अग्रवाल इत्यादयः बहुसंख्यकाः क्षेत्रवासिनः समाजस्य सदस्याश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार