Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १५ मार्चमासः (हि.स.)। असम–प्रदेश–भारतीय–जनता–पक्षस्य प्रवक्ता प्राञ्जल–कलिता रविवासरे उक्तवान् यत् गत–पञ्चवर्षेषु राज्ये यूनां सशक्तिकरणाय बहवः परिवर्तनकारी–कार्यक्रमाः आरब्धाः। मुख्यमन्त्रिणः डॉ.हिमन्त–बिस्व–सरमा इत्यस्य नेतृत्वे राज्ये पारदर्शी–योग्यता–आधारित–सर्वकारी–नियुक्ति–व्यवस्था स्थापिताऽभवत्, यस्यान्तर्गतं लक्षाधिकाः युवानः रोजगार–अवसरान् प्राप्तवन्तः।
तस्य कथनानुसारं उद्योग–निवेश–वृद्ध्या तथा विविध–आर्थिक–सहायता–योजनाभिः यूनां कृते राज्ये एव नूतन–रोजगार–अवसराः सृजिताः। बाल–विवाह–निरोध–अभियानेन तथा छात्राभ्यः स्कूटर–प्रदान–योजनया, ‘निजुत–मोइना–योजना’, ‘मुख्यमन्त्री–उद्यमिता–अभियानम्’ इत्यादिभिः योजनाभिः महिलानां सशक्तिकरणम् अपि प्रवर्धितम्।
कलिता अवदत् यत् गुवाहाटीनगरे खानापारा–स्थले आयोजिते युवा–समागमे लक्षाधिकाः युवानः सहभागिन: अभवन्, यत्र केन्द्रीय–गृहमन्त्री अमित–शाह: तथा भाजयुमो–राष्ट्रीयाध्यक्षः तेजस्वी–सूर्यः च उपस्थितौ आस्ताम्। अस्य समर्थनस्य आधारेण असमस्य युवानः अग्रिम–विधानसभा–निर्वाचनेषु पुनः तृतीयवारं भाजपा–नीत–एनडीए–गठबन्धनाय विजय–जनादेशं दातुं उत्सुकाः सन्तीति सः उक्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता