Enter your Email Address to subscribe to our newsletters




गुवाहाटीनगरम्, १५ मार्चमासः (हि.स.)। भारतीय–जनता–युवा–मोर्चया आयोजिते ‘युवा–शक्ति–समारोहे’ केन्द्रीय–गृहमन्त्री अमित–शाहः युवान् सम्बोधयन् अवदत् यत् यदि पुनः भाजपा–सर्वकारः स्थाप्यते तर्हि राज्ये अवैध–घुसपैठिनः क्रमशः बहिः निष्कासिताः भविष्यन्ति। सः काङ्ग्रेस–दलं घुसपैठिनां संरक्षणस्य आरोपं कृत्वा राज्यस्य विकासाय भाजपा–पक्षाय मतदानं कर्तुम् आह्वानं कृतवान्।
समारोहे असम–राज्यस्य मुख्यमन्त्री डॉ.हिमन्त–बिस्व–सरमा, भाजयुमो–राष्ट्रीयाध्यक्षः तेजस्वी–सूर्यः, केन्द्रीय–मन्त्री सर्बानन्द–सोनोवालः इत्यादयः नेतारः अपि उपस्थिताः आसन्।
अमित–शाहः उक्तवान् यत् राज्ये भाजपा–सर्वकारेण भेदभावं विना लक्षाधिकेभ्य: युवभ्यः रोजगार–अवसराः प्रदत्ताः तथा शान्ति–स्थापनार्थं बहवः सशस्त्र–व्यक्तयः आत्मसमर्पणं कृतवन्तः। असमस्य विकास–यात्रां निरन्तरं कर्तुं जनतायाः पुनः भाजपा–सर्वकारस्य निर्माणाय समर्थनम् अपेक्षितम् इति अपि तेन उक्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता