Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १५ मार्चमासः (हि.स.)। असमप्रदेशे द्विदिवसीयप्रवासान्तर्गतं गुवाहाटीनगरम् आगतः केन्द्रीय–गृह–मन्त्री अमितशाहः रविवासरे यात्रायाः द्वितीयदिने असमदेशाय स्वास्थ्य–सेवायाः एकं महत्त्वपूर्णं उपहारं प्रदत्तवान्। गुवाहाटी–नगर्यां आयोजिते कार्यक्रमे सः अनेका: स्वास्थ्य–सेवाः उद्घाटितवान् तथा शिलान्यासं कृतवान्।
गुवाहाटी–नगर्यां तृतीय–चिकित्सा–महाविद्यावय–एवं–चिकित्सालयस्य श्रृंखलायां प्रागज्योतिष–चिकित्सा–महाविद्यावय–एवन–चिकित्सालयस्य उद्घाटनं, तिनसुकिया तथा गोलाघाटे निर्मितं कॅन्सर–केयर–चिकित्सालयस्य उद्घाटनं, डिफू, जोरहाट च बरपेटा–चिकित्सा–महाविद्यालय–एवं–चिकित्सालयेषु सुपर–स्पेशियलिटी–चिकित्सालयस्य निर्माणस्य शिलान्यासं, गुवाहाटी–नगर्यां स्वास्थ्य–भवनस्य निर्माणस्य शिलान्यासं तथा भयापुरी–जनपदे जनपद–अस्पतालस्य निर्माणस्य शिलान्यासं आभासी–रूपेण कृतवान्।
प्रागज्योतिष–चिकित्सा–महाविद्यालय–एवं–चिकित्सालयस्य निर्माणं १३.७६ एकरभूमौ ६७५ कोटि–रूप्यकाणां व्यये कृतम्। अत्र ५०५ शय्यानि, १५ आपरेशन–कक्षाया च सह अन्या: आधुनिक–सुविधाः उपलब्धाः। अस्य निर्माणे दम्मानी–फाउंडेशन–संस्थया १५० करोड़–रूप्यकाणां अनुदानं प्रदत्तम्। अत्र प्रतिवर्षं १०० छात्राणां प्रवेशः भविष्यति।
तिनसुकिया तथा गोलाघाटे कॅन्सर–केयर–चिकित्सालयस्य निर्माणं असम–सर्वकार–संस्था च टाटा–न्यासस्य सहयोगेन कृतम्।
स्वास्थ्य–सेवायाः श्रृंखलायां राज्य–सर्वकारेण डिफू–नगर्यां २२० कोटि:, जोरहाटे ३१० कोटि: तथा बरपेटायां २८४ करोड़–रूप्यकाणां व्यये सुपर–स्पेशियलिटी–अस्पतालस्य निर्माणं कर्तुं योजना कृतम्। गुवाहाटी–नगर्यां स्वास्थ्य–भवनस्य निर्माणे २१८ कोटि–रूप्यकाणां व्ययः भविष्यति, अभयापुरी–जनपदे जनपद–चिकित्सालयस्य निर्माणे ११५ कोटि–रूप्यकाणां व्ययः भविष्यति। अस्मिन् चिकित्सालये १०० शय्या: सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता