वर्ष प्रतिपदः कार्यक्रमे सर्वेषु आमंत्रितान् नामभिः सह विशेषेण प्रवेश पत्रं निर्गमिष्यति : चम्पतरायः
-प्रत्येकस्मिन् प्रवेश पत्रे कोडसंख्या भविष्यति अहस्तांतरणीया। -मोबाइलदूरवाणी परिसरं प्रति नेतुं निषिद्धा भविष्यति, किन्तु जलस्य अन्येषां च आवश्यकसाधनानां व्यवस्था कार्यक्रमस्थले एव भविष्यति। प्रवेशद्वारस्य सूचना समये एव प्रदास्यते। अयोध्या, 15
चम्पत राय


-प्रत्येकस्मिन् प्रवेश पत्रे कोडसंख्या भविष्यति अहस्तांतरणीया।

-मोबाइलदूरवाणी परिसरं प्रति नेतुं निषिद्धा भविष्यति, किन्तु जलस्य अन्येषां च आवश्यकसाधनानां व्यवस्था कार्यक्रमस्थले एव भविष्यति। प्रवेशद्वारस्य सूचना समये एव प्रदास्यते।

अयोध्या, 15 मार्चमासः (हि.स.)।

श्रीरामजन्मभूमिमन्दिरे आगामिनि १९ मार्च दिवसे वर्षप्रतिपदा (हिन्दूनववर्ष) इत्यस्य पावनावसरे राष्ट्रपतेः कार्यक्रमं प्रति विशेषाः व्यवस्थाः क्रियन्ते। श्रीरामजन्मभूमितीर्थक्षेत्रट्रस्टस्य महासचिवः चम्पतरायः एकं वीडियोसन्देशम् प्रकाशित्य केचन विवरणानि अवदत्।

तेन उक्तं यत् कार्यक्रमे सहभागीभवितुं आमन्त्रितानां सर्वेषां अतिथीनां कृते विशेषव्यवस्थाः कृताः सन्ति। सिखसमुदायस्य जनानां कृते विधिसम्मतां लघुकृपाणधारणस्य अनुमतिः भविष्यति। तदन्यत् किमपि आयुधं (अस्त्रशस्त्रं) मन्दिरपरिसरे नेतुं पूर्णतया निषिद्धं भविष्यति।

कस्यापि आमन्त्रितस्य सह अंगरक्षकः मन्दिरपरिसरं प्रवेष्टुं न अनुमन्यते। कार्यक्रमकाले नवरात्रिपर्वणः आरम्भस्य कारणेन अतिथीनां कृते फलाहारव्यवस्था अपि करिष्यते।

सः अवदत् यत् सर्वेषां आमन्त्रितानां नामसहितानि विशेषप्रवेशपत्राणि प्रदास्यन्ते। प्रत्येकस्मिन् प्रवेशपत्रे संकेतसंख्या (कोडनम्बर) अंकिता भविष्यति तथा तत् अहस्तान्तरणीयम् भविष्यति।

मोबाइलदूरवाणीनां मन्दिरपरिसरे प्रवेशः निषिद्धः भविष्यति, किन्तु जलस्य अन्येषां च आवश्यकसंसाधनानां व्यवस्था कार्यक्रमस्थले एव भविष्यति। प्रवेशद्वारस्य विषये सूचना समये एव प्रदत्ता भविष्यति।

हिन्दुस्थान समाचार