Enter your Email Address to subscribe to our newsletters

अयोध्यानगरम्, १५ मार्चमासः (हि.स.)। रामनगरी–अयोध्यायां पुनः एकस्य ऐतिहासिक–आध्यात्मिक–उत्सवस्य कृते व्यापकाः सज्जताः क्रियन्ते। श्रीराम–जन्मभूमि–मन्दिरे अग्रिमे १९ मार्चमासे श्रीराम–यन्त्रस्य विधिवत् स्थापना भविष्यति। अस्मिन् कार्यक्रमे भारतस्य राष्ट्रपतिः द्रौपदी–मुर्मु मुख्यातिथिरूपेण सहभागितां करिष्यति। एषः समारोहः चैत्र–नवरात्रस्य प्रथम–दिने, अर्थात् वर्ष–प्रतिपदायाः शुभावसरे आयोजितः भविष्यति, यः हिन्दू–नववर्षस्य आरम्भस्य प्रतीकः मन्यते। उत्तरप्रदेश–सर्वकारेण तथा श्रीराम–जन्मभूमि–तीर्थ–क्षेत्र–न्यासेन अस्य आयोजनस्य भव्य–रूपेण सम्पन्नतायै विस्तृता योजना निर्मिता अस्ति।
श्रीराम–जन्मभूमि–तीर्थ–क्षेत्रस्य महासचिवः चम्पत–रायः अवदत् यत् श्रीराम–यन्त्रम् द्विवर्षपूर्वं जगद्गुरुणा शंकराचार्येण विजयेंद्र–सरस्वती–महाराजेन शोभायात्रया अयोध्यां प्रेषितम् आसीत्। वैदिक–गणित–ज्यामितीय–आकृतिभिः आधारितं एतत् यन्त्रम् देवतानां निवास–स्थलम् इति मन्यते, यत् सकारात्मक–ऊर्जां आकर्षयितुं समर्थम् अस्ति। अधुना अस्य यन्त्रस्य राजा–रामस्य सम्मुखे नियमित–पूजनम् अपि क्रियते।
उक्तम् यत् १९ मार्चपर्यन्तं एतत् यन्त्रम् राममन्दिरस्य द्वितीय–तले स्थाप्यते। अस्य स्थापनार्थं नव–दिवसीयं वैदिक–अनुष्ठानम् पूर्वमेव आरब्धः अस्ति, यस्मिन् दक्षिण–भारतस्य, काश्याः तथा अयोध्यायाः विद्वांसः आचार्याः सहभागिन: भवन्ति। अस्मिन् ऐतिहासिक–समारोहे प्रायः सप्त–सहस्रं जनाः उपस्थिताः भविष्यन्ति, येषु उत्तरप्रदेश–उत्तराखण्डयोः मन्दिर–निर्माण–कार्येषु योगदानं कृतवन्तः जनाः अपि सम्मिलिताः सन्ति।
महासचिवः चम्पत–रायः अवदत् यत् राष्ट्रपतिः द्रौपदी–मुर्मु प्रातः प्रायः एकादश–वादनानन्तरम् अयोध्यां प्राप्स्यति। सा राममन्दिर–परिसरं प्रविश्य श्रीराम–यन्त्रस्य पूजन–अर्चनां करिष्यति। अभिजित्–मुहूर्ते प्रायः ११:५५ वादने यन्त्र–स्थापनस्य मुख्य–अनुष्ठानं सम्पन्नं भविष्यति। पूजनानन्तरं सा प्रसादं गृह्णाति, भोजनानन्तरं च पुनः प्रतिनिवर्तिष्यते। अत्सन्झगणृ भृ ्गमने राष्ट्रपतिं उत्तरप्रदेशस्य राज्यपालः आनन्दीबेन–पटेलः तथा मुख्यमन्त्री योगी–आदित्यनाथः स्वागतं करिष्यतः। वैदिक–मन्त्र–उच्चारणस्य मध्ये सा अस्मिन् पवित्र–कार्ये सहभागिता करिष्यति।
कार्यक्रमे उत्तरप्रदेश–उत्तराखण्डयोः प्रायः त्रिशतं सन्त–महापुरुषाः अपि उपस्थिताः भविष्यन्ति। केरल–राज्यस्य पूज्या माता अमृतानन्दमयी स्व–सहस्र–भक्तैः सह रेलयानद्वारा अयोध्यां आगमिष्यति। मन्दिर–निर्माणे योगदानं दत्तवन्तः विशिष्टाः जनाः अपि विशेष–निमन्त्रणेन आमन्त्रिताः सन्ति। तेषु एल–एण्ड–टी, टाटा–समूहस्य प्रतिनिधयः, गुजरात–राज्यस्य वास्तु–विशारदस्य चन्द्रकान्त–भाई–परिवारः तथा अन्ये विशेषज्ञाः अपि सम्मिलिताः सन्ति।
महासचिवेन उक्तं यत् मन्दिर–निर्माणे संलग्नाः शिल्पिनः — शिलायाः, काष्ठस्य, संगमरमरस्य च नक्काशीकर्तारः, स्तम्भेषु मूर्तीनां निर्मातारः, देव–प्रतिमा–निर्मातारः, वस्त्र–निर्माण–संस्थाः च — एतेषां प्रायः १८०० कर्मकराः अपि आमन्त्रिताः सन्ति।
समारोहस्य सुचारु–सुरक्षित–आयोजनार्थं कठोराः सुरक्षा–व्यवस्थाः अपि कृताः सन्ति। सर्वेभ्यः अतिथिभ्यः विशेष–प्रवेश–पत्राणि प्रदास्यन्ते, येषु क्यू–आर–कोडः अंकितः भविष्यति। मन्दिर–परिसरे दूरभाष–यन्त्राणि, अस्त्राणि वा सुरक्षा–कर्मचारिणः प्रवेशं न प्राप्स्यन्ति। केवलं सिख–सम्प्रदायस्य अनुयायिनः कृपाणं धारयित्वा प्रवेशं कर्तुं अनुमताः भविष्यन्ति।
यतः एषः दिवसः चैत्र–नवरात्रस्य प्रथमः दिवसः अस्ति, अतिथीनां कृते फलाहार–भोजनस्य विशेष–व्यवस्था कृता अस्ति। सामान्य–श्रद्धालूनां कृते रामललायाः दर्शनम् सामान्यतया प्रचलितं भविष्यति, यद्यपि अल्पकालाय समय–सारिण्याम् परिवर्तनं सम्भवति।
मुख्यमन्त्री योगी–आदित्यनाथ–सर्वकारेण अस्य कार्यक्रमस्य भव्यतया सम्पन्नतायै विस्तृता रूपरेखा सज्जीकृता अस्ति। मन्दिर–परिसरस्य स्वच्छता, सज्जा तथा व्यवस्थायां विशेषः ध्यानं दीयते। एषः समारोहः न केवलं धार्मिक–दृष्ट्या महत्त्वपूर्णं, अपितु राममन्दिर–निर्माणे योगदानं दत्तवन्तः सहस्रशः कर्मकरान् सम्मानयितुं अपि महत्त्वपूर्णम् अवसरं दास्यति।
अयोध्यायां एतत् क्षणं सम्पूर्ण–देशस्य कृते आस्था–गौरवयोः प्रतीकः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता