Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ मार्चमासः (हि.स.)। भारतीय–ज्ञानपीठ–संस्थया शनिवासरे तमिल–भाषायाः कविः, गीतकारः लेखकश्च आर.वैरामुथुः २०२५ वर्षस्य कृते देशस्य सर्वोच्चं साहित्यिक–सम्मानं षष्टितमं ज्ञानपीठ–पुरस्कारं प्रदातुं घोषितम्। तमिल–साहित्यक्षेत्रे तेन कृतस्य उल्लेखनीय–योगदानस्य सृजनात्मक–अभिव्यक्तेः च सम्मानरूपेण एतत् पुरस्कारं प्रदीयते।
भारतीय–ज्ञानपीठ–संस्थायाः चयन–समितेः सभायां एतत् निर्णयं कृतम्। समितिः उक्तवती यत् तमिल–भाषा समृद्धा भाषा अस्ति, तथापि अद्यपर्यन्तं केवलं द्वौ लेखकौ - पी.वी.अखिलान्दम् (१९७५) तथा डी.जयकान्तम् (२००२)— एतत् सम्मानं प्राप्तवन्तौ। आर.वैरामुथोः एतत् पुरस्कारं तस्मिन् अन्तराले पूरणं करिष्यति।
प्रो.प्रतिभा–रायस्य अध्यक्षतायाम् आयोजितायां समितेः सभायां माधव–कौशिकः, दामोदर–माउजो, डॉ.सुरंजनदासः, डॉ.ए.कृष्ण–रावः, प्रफुल्ल–शिलेदारः, डॉ.केसु–भाई–देसाई, डॉ.जानकी–प्रसाद–शर्मा, डॉ.के.श्रीनिवास–रावः तथा ज्ञानपीठस्य वरिष्ठ–प्रकाशन–अधिकारी डॉ.महेश्वरः अपि सम्मिलिताः आसन्। सभायाः प्रारम्भे ज्ञानपीठस्य अध्यक्षः न्यायाधीशः विजेन्द्र–जैनः तथा ज्ञानपीठस्य निदेशकः मधुसूदन–आनन्दः इत्येतयोः स्मरणार्थं द्वि–मिनिट–पर्यन्तं मौनं धारयित्वा श्रद्धाञ्जलिः अर्पिता।
प्रसिद्धस्य तमिल–कवेः गीतकारस्य लेखकस्य च आर.वैरामुथोः जन्म १३ जुलाईमासे १९५३ वर्षे तमिलनाडु–राज्ये अभवत्। सः समकालीन–तमिल–साहित्यस्य प्रमुखेषु रचनाकारेषु गणितः। तस्य कवितासु लेखनेषु च मानवीय–संवेदना, सामाजिक–समूहं, प्रकृतिं प्रति प्रगाढा संवेदनशीलता च प्रभावकरूपेण दृश्यते।
वैरामुथुः कविता, गीत तथा गद्य— एतेषु त्रिषु क्षेत्रेषु ३७ अधिकान् ग्रन्थान् लिखितवान्। तस्य प्रमुखासु कृतिषु ‘कल्लिकाडू–इतिहासम्’, ‘करुवाची–काव्यम्’, ‘तन्नी–देशम्’ तथा ‘मोन्द्रम्–उलाग–पोर’ (तृतीयः विश्वयुद्धः) इत्यादयः प्रसिद्धाः सन्ति। सः अद्यपर्यन्तं सप्तवारं राष्ट्रिय–चलच्चित्र–पुरस्कारं (श्रेष्ठ–गीतकारः), पद्म–भूषण–सम्मानम् (२०१४), पद्म–श्री–सम्मानम् (२००३) तथा साहित्य–अकादमी–पुरस्कारम् (२००३) प्राप्तवान्। तस्य ‘कल्लिकाडू–इतिहासम्’ नामक–उपन्यासाय तथा कलाक्षेत्रे योगदानार्थं तमिलनाडु–शासनस्य ‘कलैमामणि’–पुरस्कारम् अपि प्रदत्तम्।
ज्ञानपीठ–पुरस्कारं भारतस्य सर्वोच्चं साहित्यिक–सम्मानम् अस्ति, यः भारतीय–भाषासु उत्कृष्ट–साहित्य–सृजनाय प्रदीयते। अस्य सम्मानस्य अन्तर्गतं विजेतृभ्यः ११ लक्ष–रूप्यकाणां धनराशिः, वाग्देव्याः (सरस्वत्याः) कांस्य–प्रतिमा तथा प्रशस्ति–पत्रं प्रदीयते।
हिन्दुस्थान समाचार / अंशु गुप्ता