मुख्यमन्त्री डॉ.यादवः विश्व-उपभोक्ता-अधिकार-दिवसे शुभकामनाः अयच्छत्
भोपालनगरम्, १५ मार्चमासः (हि.स.)। अद्य रविवासरे विश्व-उपभोक्ता-अधिकार-दिवसः अस्ति। प्रतिवर्षं १५ मार्च-दिने उपभोक्तॄणां स्व-अधिकाराणां विषये जागरूकतां वर्धयितुं तान् च सशक्तान् कर्तुं अयं दिवसः आचर्यते। अयं दिवसः उपभोक्तॄन् सुरक्षितेषु न्यायसंगतेषु
मुख्यमंत्री डॉ. यादव ने विश्व उपभोक्ता अधिकार दिवस पर दी शुभकामनाएं


भोपालनगरम्, १५ मार्चमासः (हि.स.)। अद्य रविवासरे विश्व-उपभोक्ता-अधिकार-दिवसः अस्ति। प्रतिवर्षं १५ मार्च-दिने उपभोक्तॄणां स्व-अधिकाराणां विषये जागरूकतां वर्धयितुं तान् च सशक्तान् कर्तुं अयं दिवसः आचर्यते। अयं दिवसः उपभोक्तॄन् सुरक्षितेषु न्यायसंगतेषु च स्थायिषु विपण-व्यवस्थासु क्रय-विक्रयाय प्रोत्साहयति, उपभोक्ता-सुरक्षा-नीतिषु तथा वैधानिक-प्रावधानेषु चर्चायाः अवसरं च ददाति। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अपि अस्मिन् विश्व-उपभोक्ता-अधिकार-दिवसे शुभकामनाः अयच्छत्।

मुख्यमन्त्री डॉ.यादवः X इत्यस्मिन् सामाजिक-माध्यम-मञ्चे लिखितवान् यत् — “विश्व-उपभोक्ता-अधिकार-दिवसस्य हार्दिकाः शुभकामनाः। अर्थव्यवस्थायाः आधारः उपभोक्तार: एव सन्ति। उपभोक्तुः जागरूकता एव विपणाय गतिं परिचयं च ददाति। आवश्यकं यत् प्रत्येकं उपभोक्ता स्व-अधिकारान् जानातु तथा उत्पाद-सेवयोः गुणवत्तावृद्धौ सहभागी भवतु।”

हिन्दुस्थान समाचार / अंशु गुप्ता