सांसदो योगेंद्र चंदोलिया डॉ. साहिब वर्मणो जयंत्यामददात् श्रद्धांजलिम्
नव दिल्ली, 15 मार्चमासः (हि.स.)। दिल्लीस्य पूर्वमुख्यमन्त्रिणः डॉ साहिब सिंह वर्मणो जयन्त्यवसरे उत्तरपश्चिमदिल्लीक्षेत्रस्य भारतीयजनतादलेन निर्वाचितः सांसदः योगेन्द्र चन्दोलिया रविवासरे तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्। अस्मिन् अवसरे स
सांसद योगेंद्र चंदोलिया


नव दिल्ली, 15 मार्चमासः (हि.स.)।

दिल्लीस्य पूर्वमुख्यमन्त्रिणः डॉ साहिब सिंह वर्मणो जयन्त्यवसरे उत्तरपश्चिमदिल्लीक्षेत्रस्य भारतीयजनतादलेन निर्वाचितः सांसदः योगेन्द्र चन्दोलिया रविवासरे तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्।

अस्मिन् अवसरे सः दिल्लीनगरस्य विकासे तथा “दिल्ली देहात” क्षेत्रस्य उन्नत्यर्थं डॉ साहिब सिंह वर्मा महोदयस्य योगदानं स्मृत्वा अनेकाः महत्त्वपूर्णाः घोषणाः अपि अकरोत्।

योगेन्द्र चन्दोलिया डॉ साहिब सिंह वर्माणं “धरतीपुत्र” तथा “विकासपुरुष” इति वर्णयन् अवदत् यत् अटल बिहारी वाजपेयी सरकारे श्रममन्त्रिरूपेण कार्यं कुर्वन् सः दरिद्राणां श्रमिकाणां कृषकाणां च स्वरं प्रबलं कृतवान्। सः अवदत्— “मुख्यमन्त्रिरूपेण स्वस्य पञ्चवर्षीयकार्यकालेन सः दिल्लीं नूतनासु उन्नतिषु नीतवान्, किन्तु तस्य अनन्तरं दिल्लीस्य विकासकार्येषु विरामः अभवत्।”

सांसदः चन्दोलिया डॉ वर्मणः एकस्य अपूर्णस्य स्वप्नस्य उल्लेखं कृत्वा अवदत् यत् घेवरा क्षेत्रस्य समीपे क्रीडाविश्वविद्यालयस्य निर्माणस्य योजना आसीत्, यस्य कृते भूमिः अपि अधिगृहीता आसीत्। पूर्वसरकाराणां उपेक्षया एषा योजना दीर्घकालपर्यन्तं स्थगिता अभवत्।

चन्दोलिया पुनः आग्रहं कृतवान् यत् अस्य क्रीडाविश्वविद्यालयस्य निर्माणं शीघ्रं आरभ्यताम् तथा तस्य नाम डॉ साहिब सिंह वर्मा इत्यस्य नाम्ना स्थाप्यताम्। सः अपि अवदत् यत् रेखा गुप्ता सरकारः अस्मिन् विषये शीघ्रमेव आवश्यकानि पदानि स्वीकरिष्यति।

सः आश्वासनं दत्तवान् यत् दिल्लीस्य ग्रामाणां मार्गाणां निर्माणकार्याणि तथा यूईआई-२ इत्यादयः महत्त्वपूर्णाः परियोजनाः, ये दीर्घकालात् स्थगिताः आसन्, अधुना प्राथमिकतया सम्पन्नाः भविष्यन्ति। योगेन्द्र चन्दोलिया उक्तवान् यत् डॉ साहिब सिंह वर्मा महोदयस्य ये स्वप्नाः आसन्, तेषां साकारकरणं भारतीयजनतापार्टी सर्वकारः पूर्णप्रतिबद्धतया करिष्यति।

---------------

हिन्दुस्थान समाचार