मार्गनिर्माणकार्यस्य विधायकः अकरोत् शिलान्यासम्
पूर्वीसिंहभूमः, 15 मार्चमासः (हि.स.)।जमशेदपुरपश्चिमक्षेत्रस्य विधायकः सरयूरायः रविवासरे सोनारीस्थे कार्मलजूनियरविद्यालयस्य समीपे पथनिर्माणविभागेन सोनारी-कदमा क्षेत्रयोः कृते ९.९१ किलोमीटर दीर्घस्य मार्गनिर्माणकार्यस्य शिलान्यासं कृतवान्। अस्य कार्य
सड़क निर्माण कार्य का सरयू राय


सड़क निर्माण कार्य का सरयू राय


पूर्वीसिंहभूमः, 15 मार्चमासः (हि.स.)।जमशेदपुरपश्चिमक्षेत्रस्य विधायकः सरयूरायः रविवासरे सोनारीस्थे कार्मलजूनियरविद्यालयस्य समीपे पथनिर्माणविभागेन सोनारी-कदमा क्षेत्रयोः कृते ९.९१ किलोमीटर दीर्घस्य मार्गनिर्माणकार्यस्य शिलान्यासं कृतवान्। अस्य कार्यस्य कृते प्रायः १० कोटि रुप्यकाणां व्ययः भविष्यति।

अनेन धनराशिना सोनारी-कदमा क्षेत्रयोः विविधेषु स्थानेषु पेवरब्लॉकमार्गस्य तथा कालीकृतमार्गस्य (डामरीकृतसडकस्य) निर्माणं क्रियते।

शिलान्यासकार्यक्रमे जमशेदपुरपश्चिमक्षेत्रस्य विधायकस्य जनसुविधाप्रतिनिधिः मुकुलमिश्रः, जमशेदपुरस्य सांसदप्रतिनिधिः संजीवकुमारः, आशुतोषरायः, चिरंजनवर्मा, धनंजयमहतो, अजयश्रीवास्तवः, अधिवक्ता दीपकसिंहः तथा अन्ये स्थानीयजनाः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार