ओडिशा : 11 हार्डकोर माओवादिनः अकुर्वन् आत्मसमर्पणम् में
माओवादीविचारधारा दुर्बला : डीजीपी भुवनेश्वरम्, 15 मार्चमासः (हि.स.)। वामपन्थीयउग्रवादस्य विरुद्धं सञ्चालिते अभियाने ओडिशा पुलिसायाः महती सफलता प्राप्ता। कालाहाण्डी जिलामुख्यालये भवानीपट्टना नगरस्य आरक्षित पुलिसरेखा क्षेत्रे रविवासरे आयोजिते विश
कलाहांडी में 11 माओवादियों ने किया आत्मसमर्पण


माओवादीविचारधारा दुर्बला : डीजीपी

भुवनेश्वरम्, 15 मार्चमासः (हि.स.)।

वामपन्थीयउग्रवादस्य विरुद्धं सञ्चालिते अभियाने ओडिशा पुलिसायाः महती सफलता प्राप्ता। कालाहाण्डी जिलामुख्यालये भवानीपट्टना नगरस्य आरक्षित पुलिसरेखा क्षेत्रे रविवासरे आयोजिते विशेषकार्यक्रमे एकादश कठोरमाओवादीजनाः पुलिसमहानिदेशकस्य समक्षं शस्त्राणि समर्पितवन्तः।

आत्मसमर्पणकर्तृषु नकुल नामकः माओवादी अपि अस्ति, यः भारतीय कम्युनिस्ट पार्टी माओवादी इत्यस्य ओडिशा राज्यसमित्याः डिविजनल कमेटी सदस्यः आसीत्। तस्मिन् द्वाविंशतिलक्षरूप्यकाणां पुरस्कारः घोषितः आसीत्। आत्मसमर्पणं कृतवन्तः समूहः एकं डिविजनलसमितेः सदस्याः, पञ्च एरिया कमेटी सदस्याः, पञ्च पार्टी सदस्याः च समाविशति। एतेषां सर्वेषां उपरि समष्टिरूपेण त्रिषष्टि लक्ष पञ्चविंशति सहस्र रूप्यकाणां पुरस्कारः घोषितः आसीत्।

कार्यक्रमं सम्बोधयन् पुलिसमहानिदेशकः उक्तवान् यत् आत्मसमर्पणेन एते माओवादीजनाः हिंसाया मार्गं त्यक्त्वा मुख्यधारायां पुनः प्रवेष्टुं निर्णयं कृतवन्तः। एतत् आत्मसमर्पणं क्षेत्रे माओवादीविचारधारायाः दुर्बलतां स्पष्टतया सूचयति। अस्य सफलतायाः श्रेयः विशेष अभियानं सञ्चालयन्तीभ्यः सुरक्षासंस्थाभ्यः दत्तम्, यथा स्पेशल ऑपरेशन ग्रुप, जिला स्वयंसेवी बल, सीआरपीएफ तथा बीएसएफ।

तेन आश्वासनं दत्तं यत् आत्मसमर्पणं कृतवन्तः सर्वे माओवादीजनाः राज्यसरकारस्य आत्मसमर्पण तथा पुनर्वास नीत्या अन्तर्गतं वित्तीयसहाय्यं, कौशलप्रशिक्षणं तथा पुनर्वाससुविधाः प्राप्स्यन्ति, येन ते सम्मानपूर्वकं जीवनं यापयितुं शक्नुवन्ति।

अस्मिन् अवसरे एडीजी एंटी नक्सल ऑपरेशंस संजीब पंडा, आईजी सीआरपीएफ ए एन सिन्हा, आईजी ऑपरेशंस दीपक कुमार, डीआईजी एसआईडब्ल्यू अखिलेश्वर सिंह, डीआईजी कोरापुट विशाल सिंह, कालाहाण्डी एसपी नागराज दावरकोंडा, रायगडा एसपी स्वाती एस कुमार तथा कन्धमाल एसपी हरिश बी सी इत्यादयः सहिताः पुलिस तथा अर्द्धसैनिकबलानां वरिष्ठाधिकारी उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार