पद्म–पुरस्कारस्य २०२७ कृते नामांकन–प्रक्रिया आरब्धा
नवदिल्ली, १५ मार्चमासः (हि.स.)। देशस्य सर्वोच्च–नागरिक–सम्मानेषु गण्यमानानां पद्म–पुरस्कार–२०२७ इत्यस्य कृते नामांकन-प्रक्रिया रविवासरात् आरब्धा। भारत–सर्वकारेण गणतन्त्र–दिवस–२०२७–अवसरे घोषितव्येषु एतेषु पुरस्कारेषु नागरिकान् स्व–प्रविष्टयः प्रेषयि
पद्म पुरस्कार


नवदिल्ली, १५ मार्चमासः (हि.स.)। देशस्य सर्वोच्च–नागरिक–सम्मानेषु गण्यमानानां पद्म–पुरस्कार–२०२७ इत्यस्य कृते नामांकन-प्रक्रिया रविवासरात् आरब्धा। भारत–सर्वकारेण गणतन्त्र–दिवस–२०२७–अवसरे घोषितव्येषु एतेषु पुरस्कारेषु नागरिकान् स्व–प्रविष्टयः प्रेषयितुम् आह्वानं कृतम्।

गृह–मन्त्रालयस्य सूचनानुसारं पद्म–पुरस्काराणां नामांकनस्य अन्तिम–तिथिः ३१ जुलाईमासः २०२६ अस्ति। एतानि नामांकनानि केवलं राष्ट्रीय–पुरस्कार–पटले अन्तर्जाल–माध्यमेन एव स्वीकृताः भविष्यन्ति।

पद्म–विभूषण, पद्म–भूषण तथा पद्म–श्री इति त्रयः पुरस्काराः देशस्य सर्वोच्च–नागरिक–सम्मानेषु गणनीयाः सन्ति। एते पुरस्काराः १९५४ तमे वर्षे प्रतिष्ठापिताः, प्रतिवर्षं च गणतन्त्र–दिवसावसरे घोषिताः भवन्ति। कला, साहित्य–शिक्षा, क्रीडा, चिकित्सा, समाज–सेवा, विज्ञान–अभियांत्रिकी, जन–सम्पर्क, लोक–सेवा, व्यापार–उद्योगादिषु क्षेत्रेषु विशिष्ट–उपलब्धिनां सेवाभ्यश्च मान्यतादानार्थम् एते प्रदीयन्ते।

जाति–व्यवसाय–पद–लिङ्ग–भेदं विना सर्वे अपि एतेषां पुरस्काराणां कृते पात्राः सन्ति। तथापि सार्वजनिक–क्षेत्रस्य उपक्रमेषु कार्यरताः सामान्य–शासकीय–कर्मचारिणः (चिकित्सकान् वैज्ञानिकांश्च विना) एतेषां पुरस्काराणां कृते न पात्राः सन्ति।

सर्वकारेण नागरिकान् अनुरोधः कृतः यत् महिलानां, समाजस्य दुर्बल–वर्गाणां, अनुसूचित–जाति–जनजातीनां, दिव्याङ्गजनानां तथा समाज–सेवायां निःस्वार्थतया संलग्नानां प्रतिभाशालिनां व्यक्तिनां नामांकनाय विशेषः प्रयासः क्रियताम्।

अस्य विषयस्य विस्तृत–सूचना गृह–मन्त्रालयस्य जालपुटे तथा पद्म–पुरस्कार–पटले ‘पुरस्कार–पदक’ शीर्षकान्तर्गतं उपलब्धा अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता