Enter your Email Address to subscribe to our newsletters

लखनऊ, 15 मार्चमासः (हि.स.)।
हिंसा अथवा उत्पीडनस्य पीडिताभ्यः महिलाभ्यः शीघ्रसहायतां प्रदातुं सञ्चालिताः वन स्टॉप सेंटर नाम केन्द्राणि अधुना प्रदेशे प्रभावी सहायता तन्त्ररूपेण स्थापितानि सन्ति। अत्र पीडिताभ्यः महिलाभ्यः एकस्मिन्नेव स्थाने चिकित्सकीयसहायता, मनोवैज्ञानिकपरामर्शः, विधिकपरामर्शः तथा पुलिससहायता च प्रदीयते। आवश्यकतायां महिलाभ्यः पञ्चदिनपर्यन्तं अल्पप्रवासस्य सुविधा अपि दीयते, येन संकटकाले ताभ्यः सुरक्षितपरिवेशः लभ्यते। प्रशिक्षिताः परामर्शदातारः महिलानां समस्याः गम्भीरतया श्रुत्वा समाधानस्य दिशि मार्गदर्शनं कुर्वन्ति।
प्रदेशे महिलाभ्यः सहायतां प्रदातुं वन स्टॉप सेंटर तन्त्रं शीघ्रं सुदृढं जातम्। महिला सुरक्षा तथा सशक्तीकरणं प्राथमिकतया गृह्णन्त्या राज्यसरकारेण वन स्टॉप सेंटर व्यवस्थाया विस्तारः निरन्तरं कृतः। अधुना उत्तरप्रदेशस्य पञ्चसप्ततिः जिलेषु षण्णवतिः वन स्टॉप सेंटर केन्द्राणि सञ्चालितानि सन्ति। प्रदेशस्य विशालजनसंख्यां दृष्ट्वा कतिपयेषु जिल्लासु अतिरिक्तकेन्द्राणां स्थापनायाः अनुमतिः अपि प्रदत्ता, येन अधिकाधिकाभ्यः महिलाभ्यः समये सहायतां दातुं शक्येत्। एतेषां केन्द्राणां माध्यमेन महिलाभ्यः केवलं त्वरितसहायता एव न, अपि तु स्वाधिकाराणां तथा उपलब्धसेवानां विषये अपि सूचना लभ्यते।
आपत्कालीनस्थितौ त्वरितसहायतां प्रदातुं महिला सुरक्षा तन्त्रं अधिकं प्रभावी कर्तुं प्रत्येकस्मिन् वन स्टॉप केन्द्रे आकस्मिकसेवार्थं एकस्य वाहनस्य व्यवस्था अपि कृता अस्ति। अनेन आवश्यकतायां पीडितमहिलायाः समीपं शीघ्रं गत्वा सहायतां प्रदातुं शक्यते। सरकारस्य उद्देश्यं यत् काचित् अपि महिला संकटकाले सहायतार्थं न भ्रमेत्, अपि तु सुरक्षितपरिवेशे सर्वं आवश्यकसहयोगं शीघ्रं प्राप्नुयात्।
राज्यसरकारस्य प्रवक्तुः अनुसारं किञ्चित्कालपूर्वं औरैयास्थिते वन स्टॉप सेंटर केन्द्रे चतुर्विंशतिवर्षीया एका महिला भयाकुलावस्थायां आगता। गृहे निरन्तरविवादेन पारिवारिकजीवनं प्रायः विघटनस्य सीमां प्राप्तम् आसीत्। तत्र उपस्थिताः परामर्शदातारः धैर्येण संवेदनशीलतया च तस्याः सम्पूर्णकथां शृण्वन्तः आसन्। केन्द्रस्य पहलया पतिः अपि आहूतः तथा उभयोः परामर्शप्रक्रिया आरब्धा। अनेकवारसंवादानन्तरं पतिपत्न्योः मध्ये संवादस्य मार्गः उद्घाटितः। फलतः उभयोः विवादः शान्तः अभवत् तथा एकं परिवारं विघटनात् रक्षितम्।
पश्चात् सम्पर्के सा महिला उक्तवती यत् अधुना तस्याः दाम्पत्यजीवनं सामान्यं जातम् तथा गृहे वातावरणं पूर्वात् अधिकं उत्तमं जातम्।
----------
हिन्दुस्थान समाचार