आरएसएस इत्यस्य दलस्य विभाग प्रचार प्रमुखाय पवन कुमार जैनाय अमिलत् विद्याविरिधेः उपाधिः
मुरादाबादम्, 15 मार्चमासः (हि.स.)। स्थानीय तीर्थङ्करमहावीरविश्वविद्यालये शनिवासरे आयोजिते दीक्षान्तसमारोहे राष्ट्रियस्वयंसेवकसंघस्य मुरादाबादविभागस्य विभागप्रचारकप्रमुखः तथा बीएमबीएलजैनग्रुपऑफएजुकेशन संस्थायाः अध्यक्षः समाजसेवी च पवनकुमारजैनः पीए
आरएसएस के विभाग प्रचारक प्रमुख पवन जैन को पीएचडी  की उपाधि देते केंद्रीय स्वास्थ्य मंत्री जेपी नड्डा।


मुरादाबादम्, 15 मार्चमासः (हि.स.)।

स्थानीय तीर्थङ्करमहावीरविश्वविद्यालये शनिवासरे आयोजिते दीक्षान्तसमारोहे राष्ट्रियस्वयंसेवकसंघस्य मुरादाबादविभागस्य विभागप्रचारकप्रमुखः तथा बीएमबीएलजैनग्रुपऑफएजुकेशन संस्थायाः अध्यक्षः समाजसेवी च पवनकुमारजैनः पीएचडी-उपाध्या सम्मानितः।

अस्मिन् कार्यक्रमे डॉ. पवनकुमारजैनाय पीएचडी-उपाधिः मुख्यातिथिना भारतसरकारस्य स्वास्थ्यामन्त्रिणा तथा भारतीयजनतापार्टी-पूर्वराष्ट्रीयाध्यक्षेन जेपी नड्डा महोदयेन प्रदत्ता।

डॉ. पवनकुमारजैनः दीर्घकालात् शिक्षा, समाजसेवा तथा संगठनात्मककार्येषु सक्रियभूमिकां निर्वहति। शिक्षाक्षेत्रे तस्य नेतृत्वे अनेके सृजनात्मकाः समाजोपयोगिनः च उपक्रमाः सञ्चालिताः सन्ति, येषां लाभः क्षेत्रस्य सहस्रशः विद्यार्थिनः प्राप्नुवन्ति।

जीवनस्य अस्मिन् महत्त्वपूर्णे चरणे पीएचडी-उपाधेः प्राप्त्या डॉ. जैनः एतत् सिद्धं कृतवान् यत् निरन्तराध्ययनम्, दृढसंकल्पः तथा सकारात्मकचिन्तनं च साहाय्येन कश्चनापि लक्ष्यः प्राप्तुं शक्यते।

तस्य एषा उपलब्धिः युवानां समाजस्य सर्वेषां वर्गाणां च कृते प्रेरणास्रोतः अभवत्।

हिन्दुस्थान समाचार