Enter your Email Address to subscribe to our newsletters





मेदिनीपुरम्, १४ मार्चमासः (हि.स.)। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे कोलकाता-नगरात् आभासीय-माध्यमेन अनेकाः महत्त्वपूर्णाः रेलपरियोजनाः राष्ट्राय समर्पितवान्। एतासां परियोजनानां प्रारम्भेन रेल-अवसंरचनायाः, यात्रिसौविध्यानां तथा क्षेत्रीय-संपर्कस्य सुदृढता भविष्यति इति आशा व्यक्ता।
रेलविभागेन उक्तं यत् अमृतभारत-स्थानक-योजनायाः अन्तर्गतं पुनर्विकसितं तमलुक-रेलस्थानकं तथा हल्दिया-रेलस्थानकं प्रधानमन्त्रिणा उद्घाटितम्। एतेषु स्थानकेषु आधुनिक-प्रतीक्षालयाः, उन्नताः यात्रिसुविधाः, सुगम-आवागमन-व्यवस्था तथा उन्नता बाह्य-संरचना च विकसिताः, येन यात्रिभ्यः उत्तमः यात्रानुभवः भविष्यति।
अतिरिक्ततया रेल-संपर्कस्य तथा परिचालन-क्षमतायाः वृद्ध्यर्थं बेलदा-स्थानकात् दांतन-स्थानकपर्यन्तं तृतीया रेलपङ्क्तिः अपि राष्ट्राय समर्पिता। अधिकारिणां मतानुसारम् अस्याः अतिरिक्त-पङ्क्तेः प्रारम्भेन रेलयानानां सञ्चालनं अधिकं सुगमं भविष्यति, तथा यात्रिणां वस्तुयानानां च गमनागमनं शीघ्रं सुव्यवस्थितं च भविष्यति।
रेलसुरक्षां समयबद्ध-परिचालनं च मनसि निधाय कलाईकुण्डा-स्थानकात् कनीमहुली-स्थानकपर्यन्तं स्वचालित-खण्ड-संकेत-प्रणाली अपि प्रारब्धा। अस्याः आधुनिक-संकेत-प्रणाल्याः कारणेन रेलयानानां मध्ये दूरी न्यूना भविष्यति, तथा रेल-परिचालन-क्षमतायाः वृद्धिः सुरक्षामानकेषु च संशोधनं भविष्यति।
अस्मिन् अवसरे तमलुक, हल्दिया, बेलदा तथा कलाईकुण्डा-रेलस्थानकेषु समारोहाः आयोजिताः, यत्र जनप्रतिनिधयः, रेल-अधिकारिणः, स्थानिक-नागरिकाश्च सहभागिनः अभवन्। कार्यक्रमेषु बहूनां जनानां उपस्थितिः दृष्टा।
रेल-अधिकारिणः अवदन् यत् एतासां परियोजनानां प्रारम्भेन क्षेत्रे रेल-संपर्कः सुदृढः भविष्यति, यात्रिसुविधाः वर्धिष्यन्ति, तथा क्षेत्रीय-आर्थिक-गतिविधिषु अपि तीव्रता आगमिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता