Enter your Email Address to subscribe to our newsletters

तीन किलोवाटमितात् सोलर रूफटॉपसंयंत्रेण विद्युद्व्ययः शून्यो, ग्रामस्य जनाः प्रेरिताः
रायपुरम्, 15 मार्चमासः (हि.स.)।
छत्तीसगढराज्यस्य खैरागढछुईखदानगंडईजनपदस्य टेकापारकला ग्रामनिवासिनी निशि श्रीवास स्वगृहस्य उपरि त्रिकिलोवाट् क्षमतायुक्तं सौररूफटॉप संयंत्रं स्थापयित्वा प्रधानमन्त्रि सूर्यघर निःशुल्कविद्युत् योजनायाः लाभं प्राप्तवती।
सौरसंयंत्रस्थापनात् पूर्वं तस्याः गृहे विद्युत् शुल्कं प्रतिमासं प्रायः पञ्चशत रूप्यकाणि भवति स्म, येन गृहव्ययेषु अतिरिक्तभारः जायते स्म।
योजनायाः अन्तर्गतं सौरपटलस्थापनानन्तरं अधुना तस्याः स्थितौ सकारात्मकः परिवर्तनः अभवत्। सौरसंयंत्रात् विद्युत् उत्पादनं भवति इति कारणेन तस्याः विद्युत् शुल्कं अधुना शून्यं जातम्।
अधुना तस्याः सौरसंयंत्रात् समग्रतः द्विशतद्व्यशीत्यधिकं विद्युत् एककानां उत्पादनं जातम्, यस्य कृते तस्यै चतुःशतचतुर्सप्तति रूप्यकाणां सौररिबेट् अपि प्राप्तः।
निशि श्रीवासो वदति यत् प्रधानमन्त्रि सूर्यघर निःशुल्कविद्युत् योजना केवलं विद्युत् शुल्के राहतिं न दत्तवती, अपितु स्वच्छऊर्जायाः प्रोत्साहने तथा पर्यावरणसंरक्षणे अपि महत्त्वपूर्णं पादं स्थापयति।
अधुना सा स्वग्रामे तथा समीपवर्तिषु क्षेत्रेषु अपि जनान् अस्याः योजनायाः लाभग्रहणाय प्रेरयति।
---------------
हिन्दुस्थान समाचार