अग्रिम-द्वयोर्दिवसयोः ९२ सहस्र-टन-परिमितं एलपीजी-वाति-भारं वहन्तौ द्वौ पोतौ भारतम् आगमिष्यतः
नवदिल्ली, १४ मार्चमासः (हि.स.)। देशे गृहपाक-वाति-आपूर्तेः स्थैर्यं सुनिश्चितुं द्वौ भारतीय-पोतौ शीघ्रमेव गुजरात-राज्यस्य पत्तनम् आगमिष्यतः। एतयोः पोतयोः समग्रतया ९२,००० मीट्रिक-टन-परिमिता द्रवीकृत-पेट्रोलियम-वातिः (एलपीजी) अस्ति, तथा ते १६–१७ मार्च
नेशनल मीडिया सेंटर में आयोजित पत्रकार वार्ता में तीन मंत्रालयों के अधिकारी


नवदिल्ली, १४ मार्चमासः (हि.स.)। देशे गृहपाक-वाति-आपूर्तेः स्थैर्यं सुनिश्चितुं द्वौ भारतीय-पोतौ शीघ्रमेव गुजरात-राज्यस्य पत्तनम् आगमिष्यतः। एतयोः पोतयोः समग्रतया ९२,००० मीट्रिक-टन-परिमिता द्रवीकृत-पेट्रोलियम-वातिः (एलपीजी) अस्ति, तथा ते १६–१७ मार्चमासयोः गुजरातस्य प्रमुख-पत्तनेषु स्थास्यतः। पत्तन-पोत-परिवहन-जलमार्ग-मन्त्रालयस्य अनुसारं एतेषां पोतानां पत्तनेषु प्राथमिकतया स्थान-प्रदानस्य व्यवस्था कृता अस्ति, येन वाति-आपूर्तिः न प्रभाविता भवेत्। अनेन पाक-वातेः उपलब्धता अविच्छिन्ना भविष्यति तथा सम्भाव्य-संकटस्य न्यूनीकरणे साहाय्यं भविष्यति।

मन्त्रालयस्य अधिकारी राजेश-कुमार-सिन्हा पत्रकार-वार्तायां अवदत् यत् महानिदेशालय-नौवहनं भारतीय-ध्वज-युक्त-पोतानां तेषु नियुक्तानां भारतीय-नाविकानां च स्थितिं निरन्तरं निरीक्षते। अस्यार्थं पोत-स्वामिभिः, आरपीएसएन-संस्थाभिः तथा भारतीय-राजनयिक-अभियानैः सह समन्वयः क्रियते। सः अवदत् यत् गत-चतुर्विंशति-होरासु पोत-परिवहन-नियन्त्रण-कक्षे ३१२ दूरभाष-आह्वानानि तथा ४६० ई-मेल-सन्देशाः प्राप्ताः। एते सन्देशाः नाविकैः, तेषां परिवारजनैः तथा समुद्री-क्षेत्रेण सम्बद्धैः प्रेषिताः आसन्। सर्वेषां दूरभाष-आह्वानानां ई-मेल-सन्देशानां च उत्तराणि दत्तानि। समग्रतया अद्यपर्यन्तं ५००० दूरभाष-आह्वानानां तथा ५००० ई-मेल-सन्देशानां प्रत्युत्तरं प्रदत्तम् अस्ति।

सिन्हा अवदत् यत् फारस-उपसागर-प्रदेशे वर्तमानाः सर्वे भारतीय-नाविकाः सुरक्षिताः सन्ति तथा गत-चतुर्विंशति-होरासु तेषां विषये काचित् अप्रिय-घटना न अभिलेखिता। होर्मुज-जलडमरूमध्यस्य पश्चिमभागे २४ भारतीय-ध्वज-युक्त-पोताः स्थिताः आसन्। तेषु द्वौ पोतौ— शिवालिक तथा नन्दादेवी— यौ उभौ एलपीजी-वाहक-पोतौ स्तः, अद्य प्रातःकाले सुरक्षितरूपेण होर्मुज-जलडमरूमध्यं अतिक्रम्य भारतस्य दिशं प्रति प्रस्थितौ। एतयोः पोतयोः प्रायः ९२,७०० मीट्रिक-टन-परिमिता एलपीजी-वातिः अस्ति। शिवालिक-पोतस्य १६ मार्चमासे मुन्द्रा-पत्तने आगमनस्य सम्भावना अस्ति तथा नन्दादेवी-पोतस्य १७ मार्चमासे काण्डला-पत्तने आगमनस्य अपेक्षा अस्ति। एतेन अधुना फारस-उपसागरे २२ भारतीय-ध्वज-युक्त-पोताः अवशिष्टाः सन्ति, येषु आहत्य ६११ भारतीय-नाविकाः आरूढाः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता