राहुल गांधी कांशीरामाय भारत रत्नं दातुं प्रधानमंत्रिणे मोदिने पत्रमलिखत्
नवदिल्ली, 15 मार्चमासः (हि.स.)। लोकसभायां विपक्षनेता राहुल गांधी बहुजनसमाजस्य नेतुः कांशीरामस्य जयन्त्यवसरे तस्मै मरणोत्तररूपेण भारतरत्नसम्मानं दातुम् अभ्यर्थितवान्। राहुल गांधी प्रधानमन्त्रिणे नरेन्द्र मोदी महोदयाय आधिकारिकं पत्रं लिखित्वा उक्तव
राहुल गांधी


नवदिल्ली, 15 मार्चमासः (हि.स.)।

लोकसभायां विपक्षनेता राहुल गांधी बहुजनसमाजस्य नेतुः कांशीरामस्य जयन्त्यवसरे तस्मै मरणोत्तररूपेण भारतरत्नसम्मानं दातुम् अभ्यर्थितवान्। राहुल गांधी प्रधानमन्त्रिणे नरेन्द्र मोदी महोदयाय आधिकारिकं पत्रं लिखित्वा उक्तवान् यत् कांशीराम भारतीयराजनीत्याः स्वरूपपरिवर्तने महत्त्वपूर्णां भूमिकां निभृतवान्। स्वैः आन्दोलनैः सः बहुजनानां दरिद्रजनानां च मध्ये राजनैतिकजागरूकतां वर्धितवान्।

राहुल गांधी उक्तवान् यत् भारतीयसंविधानं सर्वेभ्यः नागरिकेभ्यः समानता, गौरव तथा सहभागितायाः अधिकारं ददाति। कांशीराम समाजस्य अधमतमवर्गपर्यन्तं एते अधिकाराः सार्थकाः भवन्तु इति हेतोः स्वजीवनं समर्पितवान्। अनेन भारतीयलोकतन्त्रस्य आधारः दृढः अभवत् तथा राजनैतिकव्यवस्था अधिकप्रतिनिधित्वयुक्ता न्यायपूर्णा च अभवत्।

सः अपि उक्तवान् यत् अनेकवर्षेभ्यः दलितबुद्धिजीविनः, नेतारः सामाजिककार्यकर्तारः च कांशीरामं भारतरत्नसम्मानेन सम्मानयितुम् आग्रहं कुर्वन्ति।

स्वपत्रे राहुल गांधी उक्तवान् यत् कांशीराम जनान् स्मारितवान् यत् तेषां मतं, तेषां वाणी तथा तेषां प्रतिनिधित्वं अत्यन्तं महत्त्वपूर्णम् अस्ति तथा अयं देशः सर्वेषां समानरूपेण अस्ति। तस्य प्रयासैः ते जनाः अपि राजनीतिं न्यायसमतयोः प्राप्तेः साधनरूपेण अमन्यन्त, ये पूर्वं कदापि सार्वजनिकजीवने प्रवेशं चिन्तितवन्तः न आसन्।

राहुल गांधी उक्तवान् यत् कांशीरामाय मरणोत्तररूपेण भारतरत्नप्रदानं कृत्वा राष्ट्रस्य प्रति तस्य महान् योगदानस्य मान्यता भविष्यति तथा तेषां लक्षशः जनानां आकाङ्क्षाणां सम्मानः अपि भविष्यति, ये तम् सशक्तिकरणस्य आशायाश्च प्रतीकरूपेण पश्यन्ति।

---------------

हिन्दुस्थान समाचार