राष्ट्रीय–स्वयंसेवक–संघेन विश्व–शान्त्यै केन्द्र–सर्वकारस्य नीतिः समर्थिता
समालखनगरम्, १५ मार्चमासः (हि.स.)। पश्चिम–एशिया–प्रदेशे प्रवर्तमान–संघर्षस्य सन्दर्भे राष्ट्रीय–स्वयंसेवक–संघस्य सरकार्यवाहः दत्तात्रेय–होसबाले केन्द्र–सर्वकारस्य नीतिं समर्थयन् उक्तवान् यत् संघः विश्वे शान्तेः पक्षधरः अस्ति तथा युद्धं कस्यापि समस्य
पत्रकार वार्ता को संबोधित करते संघ के सरकार्यवाह दत्तात्रेय होसबाले एवं अखिल भारतीय प्रचार प्रमुख सुनील आंबेकर


समालखनगरम्, १५ मार्चमासः (हि.स.)। पश्चिम–एशिया–प्रदेशे प्रवर्तमान–संघर्षस्य सन्दर्भे राष्ट्रीय–स्वयंसेवक–संघस्य सरकार्यवाहः दत्तात्रेय–होसबाले केन्द्र–सर्वकारस्य नीतिं समर्थयन् उक्तवान् यत् संघः विश्वे शान्तेः पक्षधरः अस्ति तथा युद्धं कस्यापि समस्यायाः समाधानं न भवति। सः अवदत् यत् विश्वे प्रवर्तमानाः संघर्षाः शीघ्रं समाप्ताः भवेयुः तथा शान्तेः स्थापना भवेत्। भारत–सरकारः अपि अन्ताराष्ट्रिय–स्तरे शान्ति–स्थापनाय प्रयत्नान् कुर्वन् अस्ति।

हरियाणा–राज्यस्य समालखनगरे आयोजितायाः त्रिदिवसीयायाः अखिल–भारतीय–प्रतिनिधि–सभायाः अवसरे संघेन स्वस्य संगठनात्मक–संरचनायां महत्त्वपूर्ण–परिवर्तनस्य घोषणा कृता। ‘प्रान्त’–एककानां स्थाने ‘संभाग’–एककानां गठनं भविष्यति। वर्तमानकाले विद्यमानाः ४६ प्रान्ताः पुनर्गठिताः सन्तः प्रायः ८० संभागेषु परिवर्तिष्यन्ते, येन संगठनस्य कार्यं स्थानीय–स्तरे अधिकं प्रभावी भवेत्।

होसबाले अवदत् यत् संघस्य मूल–उद्देश्यं समाजे एकता, सकारात्मक–परिवर्तनं तथा राष्ट्रीय–चेतनायाः सुदृढीकरणम् अस्ति। अस्य कृते संघः ‘पञ्च–परिवर्तन’ इत्याख्येषु विषयेषु—सामाजिक–समरसता, परिवार–प्रबोधनम्, पर्यावरण–संरक्षणम्, स्वदेशी–आचरणम् तथा नागरिक–कर्तव्येषु—विशेषं कार्यं कुर्वन् अस्ति। वर्तमानकाले देशे प्रायः ८८,९४९ शाखाः ५५,६८३ स्थानेषु सञ्चालिताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता