Enter your Email Address to subscribe to our newsletters

भुवनेश्वरनगरम्, १५ मार्चमासः (हि.स.)। वरिष्ठ–आईपीएस–अधिकारी सौमेन्द्र–प्रियदर्शी इत्यस्मै रथ–यात्रा–२०२६ इत्यस्य आयोजनस्य व्यवस्थापन–व्यवस्थानां निरीक्षणस्य दायित्वं समर्पितम्। एषा सूचना आरक्षक–मुख्यालयस्य सूत्रैः प्रदत्ता।ज्ञायते यत् पुरी–नगरे आयोज्यमानस्य अस्य विश्व–प्रसिद्धस्य उत्सवस्य सुचारु–सुरक्षित–सुसंगठित–संचालनं सुनिश्चितं कर्तुमेव एतत् दायित्वं तस्मै प्रदत्तम्। रथ–यात्रायां प्रतिवर्षं देश–विदेशेभ्यः लक्षशः श्रद्धालवः सहभागिन: भवन्ति।
सूत्राणां अनुसारं प्रियदर्शी रथ–यात्रा–काले विविध–सुरक्षा–प्रबन्धन–सम्बद्ध–व्यवस्थानां समन्वयनस्य निरीक्षणस्य च दायित्वं वहिष्यति। अस्य निर्णयस्य परिणामस्वरूपं आयोजनसम्बद्धेषु विविधेषु विभागेषु उत्तमः समन्वयः तथा प्रभावी योजना सुनिश्चिता भविष्यतीति अपेक्षा क्रियते।
स्वस्य दायित्वस्य अन्तर्गतं सः विधि–व्यवस्थां, यातायात–प्रबन्धनं तथा मन्दिर–परिसरस्य अन्तः–बहिः च व्यवस्थाः निरीक्षिष्यति। रथ–यात्रा–काले विशालसंख्यया श्रद्धालूनाम् आगमनं दृष्ट्वा एताः व्यवस्थाः अत्यन्तं महत्त्वपूर्णाः मन्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता