जातिवादस्य राजनीति: भारतस्य आधारं दुर्बलयति — योगी–आदित्यनाथः
चित्तौडगढ़नगरम्, १५ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी–आदित्यनाथः अवदत् यत् जातिवाद–आधारिता राजनैतिक–प्रवृत्तिः भारतस्य आधारं दुर्बलयति तथा समाजे विभाजनस्य प्रवृत्तिं वर्धयति। सः उक्तवान् यत् विभाजन–आधारित–राजनीतिः देशं पुनः दास्य–
चित्तौड़गढ़ में रविवार को जौहर श्रद्धांजलि समारोह में मंच से अभिवादन करते यूपी सीएम योगी आदित्यनाथ।


विजय स्तंभ पर केंद्रीय मंत्री शेखावत, सीएम योगी और अन्य।


चित्तौडगढ़नगरम्, १५ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी–आदित्यनाथः अवदत् यत् जातिवाद–आधारिता राजनैतिक–प्रवृत्तिः भारतस्य आधारं दुर्बलयति तथा समाजे विभाजनस्य प्रवृत्तिं वर्धयति। सः उक्तवान् यत् विभाजन–आधारित–राजनीतिः देशं पुनः दास्य–स्थितेः दिशि प्रेरयितुं शक्नोति, अतः राष्ट्रहिताय समाजस्य एकता आवश्यकाऽस्ति।

सः जौहर–स्मृति–संस्थानस्य आयोजनस्य अन्तर्गतं आयोजिते जौहर–श्रद्धाञ्जलि–समारोहे भाषमाणः उक्तवान् यत् चित्तौडगढ़–दुर्गः केवलं शिलानिर्मितं ऐतिहासिक–निर्माणं न, अपितु भारतस्य स्वाभिमानस्य, मर्यादायाः तथा राष्ट्रीय–अस्मितायाः प्रतीकः अस्ति। महाराणा–प्रतापः, छत्रपति–शिवाजी तथा गुरु–गोविन्द–सिंहः इत्यादयः राष्ट्रनायकाः सत्तालाभाय न, अपितु देश–धर्म–रक्षणार्थं संघर्षं कृतवन्तः इति अपि तेन उक्तम्।

मुख्यमन्त्री अवदत् यत् समाजे जातिवादेन एकता दुर्बला जाता, अतः राष्ट्रनिर्माणाय समरसतायाः भावः आवश्यकः। सः सुभाषचन्द्र–बोसः इत्यस्य स्मरणं कृत्वा अवदत् यत् तेन भारतस्य स्वातन्त्र्यार्थं युवान् प्रेरिताः आसन्; यदि नेता चभाषचन्द्रबोसः अद्य अपि स्युः, तर्हि देशस्य विभाजनं न अभविष्यत् इति अपि तेन उक्तम्।

अस्मिन् अवसरे केन्द्रीय–संस्कृति–पर्यटन–मन्त्री गजेन्द्र–सिंह–शेखावतः अपि अवदत् यत् चित्तौडगढ़–दुर्गः भारतस्य स्वाभिमानस्य जीवित–प्रतीकः अस्ति। दुर्गस्य संरक्षणं पर्यटन–विकासं च दृष्ट्वा अत्र आधुनिक ‘एक्सपीरियंस–केन्द्रः’ निर्मास्यते इति तेन सूचितम्। तथा सूरजपोल–दिशि नूतन–वैकल्पिक–मार्गस्य निर्माणकार्यं आरब्धं, येन दुर्गे यातायात–व्यवस्था सुचारुतया सञ्चालयितुं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता