Enter your Email Address to subscribe to our newsletters

फिरोजाबादम्, 15 मार्चमासः(हि.स.)।पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः रविवासरे ऐतिहासिकस्य गोपालाश्रमप्राङ्गणे आयोजिते भव्यकार्यक्रमे जनपदस्य सांस्कृतिकस्थलानां कायाकल्पार्थं षट्शतानि सप्तनवतिलक्षाणि सप्तदशसहस्ररूप्यकाणां मूल्ययुक्तानां विविधपर्यटनविकासपरियोजनानां लोकार्पणं शिलान्यासं च कृतवान्।
एतेषु परियोजनासु गोपालाश्रमस्य पर्यटनविकासः सौन्दर्यीकरणं च, श्रीचिन्तामणिमन्दिरस्य पर्यटनविकासः सौन्दर्यीकरणं च, तथा छिदामीलालजैनमन्दिरस्य पसीनेवाले हनुमानजीमन्दिरस्य च पर्यटनविकासपरियोजनानां शिलान्यासः कृतः।
अस्मिन् अवसरे पर्यटनमन्त्री जयवीरसिंहः उक्तवान् यत् फिरोजाबाद केवलं सुहागनगरी इति प्रसिद्धा नास्ति, अपि तु सा आस्थाया अध्यात्मस्य च अमूल्या धरोहराऽस्ति। मुख्यमन्त्री योगी आदित्यनाथस्य मार्गदर्शने अस्माकं लक्ष्यं यत् फिरोजाबादस्य प्रत्येकं पौराणिकं ऐतिहासिकं च स्थलम् पर्यटनमानचित्रे प्रतिष्ठां प्राप्नुयात्। अद्य गोपालाश्रमस्य चिन्तामणिमन्दिरस्य च यत् सौन्दर्यीकरणं सम्पन्नम्, तत् आगच्छतां श्रद्धालूनां मनसि शान्तिं दास्यति, पर्यटकानां सङ्ख्यायाः वृद्धिं कृत्वा स्थानीयव्यापाराय नूतनगतिं दास्यति।
आगामियोजनानां विषये प्रकाशं कुर्वन् सः अवदत् यत् छिदामीलालजैनमन्दिरस्य पसीनेवाले हनुमानजीमन्दिरस्य च शिलान्यासः अस्याः श्रृंखलायाः एव भागः अस्ति। अत्र वयं विश्वस्तरीयसुविधाः विकसितुं प्रयत्नं कुर्मः, येन बहिःप्रदेशेभ्यः आगच्छन्तः पर्यटकाः अत्र निवसन्तु, अत्रस्थां संस्कृतिं ज्ञातुं प्रेरिताः भवन्तु। जनपदे स्थापितैः संकेतफलकैः पर्यटकानां ऐतिहासिकस्थलेषु गमनाय काचित् असुविधा न भविष्यति।
सदरविधायकः मनीष असीजा पर्यटनसंस्कृतिदृष्ट्या कृतानां कार्याणां प्रशंसाम् अकरोत्। विधायकः प्रेमपाल धनगर उक्तवान् यत् एताभिः परियोजनाभिः फिरोजाबादस्य नगरनिगमसीमायां ग्रामक्षेत्रेषु च पर्यटनस्य नूतना दिशा उद्घाटिता भविष्यति।
अस्मिन् अवसरे अनिल मित्तल, त्रिभुवननाथ मित्तल, नानकचन्द अग्रवाल, सुनील टण्डनः, पुष्पेन्द्रपालः इत्यादयः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार