विविध कला रूपाणि समीकृता राष्ट्रिय चित्रकला प्रदर्शनी अथ च कार्यशाला सोमवासरतः
वाराणसी, 15 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरस्थितस्य काशीहिन्दूविश्वविद्यालयस्य दृश्यकलासंकायेन सप्तदिवसीया राष्ट्रीयकला प्रदर्शनी कार्यशाला च “नवारम्भ” इति नाम्ना मार्चमासस्य षोडशतिथेः सोमवासरात् अहिवासी कला दीर्घायां आयोजिता अस्ति।
विविध कला रूपाणि समीकृता राष्ट्रिय चित्रकला प्रदर्शनी अथ च कार्यशाला सोमवासरतः


वाराणसी, 15 मार्चमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणसीनगरस्थितस्य काशीहिन्दूविश्वविद्यालयस्य दृश्यकलासंकायेन सप्तदिवसीया राष्ट्रीयकला प्रदर्शनी कार्यशाला च “नवारम्भ” इति नाम्ना मार्चमासस्य षोडशतिथेः सोमवासरात् अहिवासी कला दीर्घायां आयोजिता अस्ति। अस्याः कार्यशालायाः उद्घाटनं विश्वविद्यालयस्य प्रो अजितकुमार चतुर्वेदी अपराह्णे एकवादने करिष्यति।

एतां सूचनां रविवासरे संकायस्य अधिष्ठात्री प्रो उत्तमा दीक्षित प्रदत्ता। तया उक्तं यत् चित्रकलाप्रदर्शनी “नवारम्भ” उद्घाटनसमये काशीहिन्दूविश्वविद्यालयस्य परीक्षानियन्त्रिका तथा कलासंकायप्रमुखा प्रो सुषमा घिल्डियाल, सम्पूर्णानन्द संस्कृतविश्वविद्यालयस्य पूर्वकुलपतिः तथा संस्कृतविद्या धर्मविज्ञानसंकायस्य प्रमुखः प्रो राजाराम शुक्ल, काशीहिन्दूविश्वविद्यालयस्य विश्वनाथमन्दिरस्य प्रबन्धकः प्रो ब्रजभूषण ओझा च अपि विशिष्टतया उपस्थिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार