मतुआ धर्म मेलायाम् अमित शाहःअददात् शुभकामनाः , हरिचंद ठाकुरस्य आदर्शान् बोधितवान् मार्गदर्शकान्
नव दिल्ली, 16 मार्चमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमित शाह मतुआसमुदायस्य प्रति मतुआधर्ममेलायाः अवसरस्य निमित्तं शुभाशंसाः प्रदत्तवान्। अयं मेला पूर्णब्रह्म श्रीश्री हरिचन्द ठाकुर इत्यस्य द्विशतपञ्चदशतमी जयन्त्याः उपलक्ष्ये आयोज्यते। केन्द्रीय
अमित शाह


नव दिल्ली, 16 मार्चमासः (हि.स.)।

केन्द्रीयगृहमन्त्री अमित शाह मतुआसमुदायस्य प्रति मतुआधर्ममेलायाः अवसरस्य निमित्तं शुभाशंसाः प्रदत्तवान्। अयं मेला पूर्णब्रह्म श्रीश्री हरिचन्द ठाकुर इत्यस्य द्विशतपञ्चदशतमी जयन्त्याः उपलक्ष्ये आयोज्यते।

केन्द्रीयगृहमन्त्री सामाजिकमाध्यमे एक्स इति माध्यमे उक्तवान् यत् पूर्णब्रह्म श्रीश्री हरिचन्द ठाकुर एकः दिव्यात्मा आसीत्। सः भारतीयज्ञानपरम्परायाः गाम्भीर्यं सम्यग् अवगत्य भक्तेः समानतायाः नैतिकजीवनस्य च सिद्धान्तान् समाजस्य समक्षं प्रस्तुतवान्।

तेन उक्तं यत् एते सिद्धान्ताः अद्यापि समाजस्य मार्गदर्शकाः सन्ति। वर्षे २०२६ पश्चिमबङ्गालराज्यस्य उत्तरचतुर्विंशतिपरगणाजनपदे आयोज्यमानः मतुआधर्ममेला एतेषां मूल्यानां प्रति समाजस्य प्रतिबद्धतां अधिकं सुदृढां करिष्यति।

---------------

हिन्दुस्थान समाचार