Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्रिणो योगिनः आदित्यनाथस्य निर्देशे अयोध्यायां भव्यसज्जा , 250 कलाकाराः दास्यन्ते सांस्कृतिकप्रस्तुतयः
-रामनगर्यां राष्ट्रपतेः पारम्परिकं स्वागतम्, अवधी लोकनृत्यैः भजनैश्च गुंजिष्यति अयोध्यामार्गः
राष्ट्रपतेः आगमनावसरे अयोध्यायां सांस्कृतिकोत्सवः, रामायणाधारितकार्यक्रमैः अभिनन्दनम् भविष्यति
अयोध्यायां भक्तेः संस्कृतेश्च निनादः, राष्ट्रपतिस्वागतार्थं विंशतिः मंचाः सज्जीभविष्यन्ति
अयोध्या, १६ मार्च। योगी आदित्यनाथ इत्यस्य निर्देशनानुसारं रामनगरी अयोध्या इत्यत्र द्रौपदी मुर्मु इत्यस्याः राष्ट्रपतेः १९ मार्च दिनाङ्के प्रस्तावितस्य आगमनस्य सन्दर्भे तीव्रतया तयारीः क्रियन्ते। प्रशासनसंस्कृतिविभागस्य विविधसंस्थानानां च सहकार्येण सम्पूर्णं नगरं भव्यरूपेण सांस्कृतिकरूपेण च अलङ्क्रियते, यत् राष्ट्रपतेः पारम्परिकं गरिमामयं च स्वागतं कर्तुं शक्येत।
विमानस्थानकात् राममन्दिरपर्यन्तं भव्यस्वागतव्यवस्था
सीडीओ कृष्णकुमारसिंह अवदत् यत् संस्कृतिविभागस्य प्रयासेन विमानस्थानकात् राममन्दिरद्वारपर्यन्तं भव्यस्वागतसमारोहः आयोजितः भविष्यति। अस्मिन् अवसरे नगरस्य मार्गेषु प्रायः विंशतिः सांस्कृतिकमंचाः सज्जीकृताः भविष्यन्ति, यत्र प्रायः द्विशतपञ्चाशत् कलाकाराः स्वस्वप्रस्तुतयः दास्यन्ति।
२५० कलाकारैः रामायणाधारिताः प्रस्तुतयः
तेन उक्तं यत् एतेषु मंचेषु उत्तरप्रदेशस्य विभिन्नजनपदेभ्यः आगताः कलाकाराः रामायणाधारिताः सांस्कृतिकप्रस्तुतयः प्रदर्शयिष्यन्ति। कार्यक्रमेषु स्वागतगीतानि, भजनानि, बधावा, अवधी लोकगायनम्, लोकनृत्यानि तथा रामभक्तिसम्बद्धाः पारम्परिककार्यक्रमाः सम्मिलिताः भविष्यन्ति। राष्ट्रपतेः स्वागतमार्गस्य उभयोः पार्श्वयोः एते मंचाः स्थाप्यन्ते, येन सम्पूर्णः मार्गः भक्तिसंस्कृतेश्च निनादेन गुंजिष्यति।
अयोध्यायाः पारम्परिकसंस्कृतेः दर्शनम्
अयोध्यायाः पारम्परिकसंस्कृतेः प्रदर्शनार्थं रामलीलायाः अंशप्रस्तुति, अवधी लोकनृत्यं, झाङ्कीप्रदर्शनम्, ढोल-नगाडवादनम्, शङ्खनादः, वेदपाठः तथा भजनसंकीर्तनम् इत्यादयः कार्यक्रमाः अपि आयोजिताः भविष्यन्ति। एताभिः प्रस्तुतिभिः अयोध्यायाः प्राचीनधार्मिकवैदिकसांस्कृतिकपरम्पराणां सुन्दरं दर्शनं भविष्यति।
नगरस्य प्रमुखस्थानेषु मंचव्यवस्था
नगरस्य प्रमुखस्थानेषु मंचाः स्थाप्यन्ते। तेषु विमानस्थानकमर्गः, नाका, देवकाली, चूडामणिचौराहा, निषादराजचौराहा, बृहस्पतिकुण्डस्य समीपः तथा राममन्दिरद्वारस्य निकटवर्ती क्षेत्राणि सम्मिलितानि सन्ति। लघुमंचेषु प्रायः सप्तकलाकाराणां दलं प्रस्तुति दास्यति, महान्तु मंचेषु प्रायः पञ्चदशकलाकाराणां दलानि सांस्कृतिककार्यक्रमान् प्रदर्शयिष्यन्ति।
अयोध्यायाः सांस्कृतिकधरोहरस्य वैश्विकप्रदर्शनम्
सीडीओ कृष्णकुमारसिंहः उक्तवान् यत् सर्वाणि दलानि रामभक्तिं, अवधीसंस्कृतिं वैदिकपरम्परां च सजीवरूपेण प्रस्तुतयिष्यन्ति। अस्य भव्यसमारोहस्य उद्देश्यः राष्ट्रपतेः पारम्परिकं हृदयस्पर्शि च स्वागतं कर्तुम् अस्ति, येन अयोध्यायाः सांस्कृतिकधरोहरः देशे विश्वपटले च अधिकं प्रतिष्ठां प्राप्नुयात्।
हिन्दुस्थान समाचार