Enter your Email Address to subscribe to our newsletters

लखनऊ, 16 मार्चमासः (हि.स.)।
भारतीयजनतादलं सोमवासरे पश्चिमक्षेत्रे अन्तर्भूतानां जिलानां जिलापदाधिकरिणां घोषणां कृतवत्। पश्चिमक्षेत्रस्य क्षेत्रीयाध्यक्षः सत्येन्द्र सिसोदिया अवदत् यत् गाजियाबाद, गौतमबुद्धनगर, बुलन्दशहर, सहारनपुरमहानगर, सहारनपुरजिला, नोयडामहानगर, शामली, बिजनौर, मुज़फ्फरनगर, हापुड, मेरठमहानगर, रामपुर, मुरादाबादमहानगर तथा सम्भल इत्येषां जिलासमितीनां घोषणा कृता।
विदितं यत् अस्य विषयस्य सम्बन्धे शनिवासरे प्रदेशीयभाजपामुख्यालये लखनऊ नगरे सभा आसीत्। प्रदेशाध्यक्षस्य पंकज चौधरी तथा प्रदेशसंगठनमन्त्रिणः धर्मपाल सिंह इत्ययोः उपस्थितौ आयोजितायां तस्यां सभायां एते नामानि निश्चितानि आसन्।
जिलासमितीनां गठनप्रक्रियायां सर्वेषां वर्गाणां समुचितभागीदारी सुनिश्चितीकृता तथा महिलाभ्यः युवभ्यश्च अवसरः अपि प्रदत्तः।
---------------
हिन्दुस्थान समाचार