मुख्यमंत्री डॉ. यादवः अद्य अभिमुखीकरण कार्यक्रमे सम्मेलिष्यते ।
- कृषि वर्षे सक्रिय सहभागितायै जनप्रतिनिधीनां एवं प्रबुद्धजनानां च अभिमुखीकरण कार्यक्रमः भोपालम्, 16 मार्चमासः (हि.स.)। मुख्यमन्त्रिणो डॉ. मोहन यादवस्य उपस्थितौ कृषककल्याणवर्षे 2026 अन्तर्गतं किसानकल्याण तथा कृषिविकासविभागेन अद्य सोमवासरे प्रा
मुख्यमंत्री डॉ. यादव


- कृषि वर्षे सक्रिय सहभागितायै जनप्रतिनिधीनां एवं प्रबुद्धजनानां च अभिमुखीकरण कार्यक्रमः

भोपालम्, 16 मार्चमासः (हि.स.)।

मुख्यमन्त्रिणो डॉ. मोहन यादवस्य उपस्थितौ कृषककल्याणवर्षे 2026 अन्तर्गतं किसानकल्याण तथा कृषिविकासविभागेन अद्य सोमवासरे प्रातः 11 वादनात् आरभ्य राजधानी भोपालस्थिते कुशाभाऊ ठाकरे अन्तर्राष्ट्रीय कन्वेन्शन केन्द्रे जनप्रतिनिधीनां प्रबुद्धजनानां च अभिमुखीकरणकार्यक्रमः आयोज्यते।

जनसम्पर्काधिकारी लक्ष्मण सिंह अवदत् यत् अस्मिन् कार्यक्रमे उपमुख्यमन्त्री मन्त्रिगणाः जनप्रतिनिधयः प्रबुद्धजनाश्च आमन्त्रिताः सन्ति। अयं कार्यक्रमः कृषिवर्षे सक्रियसहभागितायै आयोज्यते। कृषकाणां समृद्धिः सुखसमृद्धिश्च राज्यसरकारस्य प्रमुखः उद्देश्यः अस्ति।

कार्यक्रमे किसानकल्याण तथा कृषिविकासविभागेन सह उद्यानिकी मत्स्यपालन सहकारिता पशुपालनविभागेषु क्रियमाणानां योजनानां क्रियाकलापानां च विषये जानकारी प्रदास्यते।

तेन उक्तं यत् कार्यक्रमस्य समये प्रातः 11 वादनात् मध्याह्न 12:30 वादनपर्यन्तं कृषि उद्यानिकी मत्स्यविभागानां विशेषसत्रम् आयोज्यते। ततः अनन्तरं अपराह्णे 2 वादने मुख्यमन्त्री डॉ. यादव कार्यक्रमे सहभागी भविष्यन्ति।

मुख्यमन्त्री डॉ. यादव स्वस्य उद्बोधनेन कृषककल्याणसम्बद्धानां विभिन्नयोजनानां क्रियाकलापानां च विषये जनप्रतिनिधिभ्यः प्रबुद्धजनभ्यश्च जानकारी साझा करिष्यन्ति। सम्बन्धितविभागानां वरिष्ठाधिकारीभिः विभागीयप्रस्तुतीकरणं प्रश्नानां समाधानं च अपि क्रियते।

---------------

हिन्दुस्थान समाचार