Enter your Email Address to subscribe to our newsletters

भाेपालम्, 16 मार्चमासः (हि.स.)।
अद्य सोमवासरे राष्ट्रियटीकाकरणदिवसः अस्ति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादव प्रदेशस्य नागरिकान् अभिनन्दितवन्तः। तेन टीकाकरणाभियानस्य महत्वं निरूप्य स्वस्थनागरिकाः एव समृद्धदेशस्य आधारः इति उक्तम्।
मुख्यमन्त्री डॉ. यादव सामाजिकमाध्यमे एक्स इत्यत्र सन्देशं प्रकाशित्य अलिखत्—“राष्ट्रीयटीकाकरणदिवसस्य हार्दिकाः शुभाशयाः। स्वस्थाः नागरिकाः एव समृद्धदेशस्य आधारः भवन्ति। अस्मिन् कार्ये टीकाकरणस्य अत्यन्तं महत्त्वपूर्णा भूमिका अस्ति। मातृणां शिशूनां च समयबद्धटीकाकरणेन देशस्य भविष्यं सुरक्षितं कर्तुं शक्यते। टीकाकरणाभियाने संलग्नानां समस्तानां दलानां संस्थानां च प्रति अस्मिन् अवसरे मम शुभाशयाः।”
उल्लेखनीयं यत् भारतदेशे प्रतिवर्षं १६ मार्च दिनाङ्के राष्ट्रियटीकाकरणदिवसः आचर्यते। अस्य उद्देश्यः संक्रामकरोगान् निवारयितुं जनस्वास्थ्यस्य रक्षणार्थं च टीकाकरणस्य महत्त्वविषये जनजागरणं वर्धयितुम् अस्ति। भारतदेशे अस्य दिवसस्य प्रथमं आयोजनं १९९५ वर्षे ओरल पोलियो वैक्सीन इत्यस्य प्रथमखुराकस्य आरम्भेन सह अभवत्।
---------------
हिन्दुस्थान समाचार