Enter your Email Address to subscribe to our newsletters


भाेपालम्, 16 मार्चमासः (हि.स.)।
पूर्वथलसेनाध्यक्षः तथा देशस्य प्रथमः रक्षाप्रमुखः (सीडीएस) जनरल बिपिन रावत तथा मराठा साम्राज्यस्य विस्तारकः होल्करवंशस्य संस्थापकः महान् योद्धा मल्हारराव होल्कर इत्येतयोः अद्य सोमवासरे जयंती अस्ति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादव उभयोः अपि महान् विभूतीनां स्मरणं कृत्वा ताभ्यां विनम्रं नमनं अकरोत्।
मुख्यमन्त्री डॉ. यादव सामाजिकमाध्यमे एक्स इत्यत्र सन्देशं प्रकाशित्य देशस्य प्रथमं रक्षाप्रमुखं जनरल बिपिन रावतं जयंती-अवसरे स्मरन् अवदत्— “माता भारत्याः वीरः सपूतः, देशस्य प्रथमः रक्षाप्रमुखः जनरल बिपिन रावत महोदयः। तस्य जयंती-अवसरे अहं सादरं नमनं करोमि। सः चीफ ऑफ डिफेन्स स्टाफ इति पदे स्थित्वा भारतीयसेनायाः सशक्तीकरणे महत्वपूर्णां भूमिकां निर्वहितवान्। मातृभूमेः प्रति समर्पितं तस्य जीवनं सर्वदा प्रेरणां दास्यति।”
अन्यस्मिन् सन्देशे मुख्यमन्त्री डॉ. यादव मल्हारराव होल्करं जयंती-अवसरे नत्वा अलिखत्— “होल्करवंशस्य संस्थापकः, मालवप्रदेशस्य गौरवः मल्हारराव होल्कर महोदयः। तस्य जयंती-अवसरे सादरं नमनं करोमि। स्वस्य अदम्यसाहसेन पराक्रमेण च सः मराठा साम्राज्यस्य विस्तारे महत्वपूर्णं योगदानं दत्तवान्। लोकहिताय जनकल्याणाय च तस्य प्रयासाः सदा स्मरणीयाः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार