Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 16 मार्चमासः (हि.स.)।
कश्मीरप्रदेशे वसन्तऋतौ आगते एशियादेशस्य बृहत्तमः ट्यूलिपोद्यानः सोमवासरे सामान्यजनानां कृते उद्घाटितः। अस्य बहुप्रतीक्षितस्य पुष्पोद्यानस्य दर्शनार्थं सहस्रशः पर्यटकाः तथा स्थानीयजनाः आगमिष्यन्ति इति अपेक्षा अस्ति।
श्रीनगरनगरे ज़बरवानपर्वतश्रेण्याः पादप्रदेशे स्थितस्य इन्दिरा गांधी मेमोरियल ट्यूलिपोद्यानस्य उद्घाटनं मुख्यमन्त्री उमर अब्दुल्ला अकरोत्। ट्यूलिपोद्यानस्य उद्घाटनं कश्मीरघाट्यां वसन्तऋतोः आगमनस्य प्रतीकं भवति तथा कश्मीरस्य पर्यटनऋतोः आरम्भस्य संकेतं ददाति।
प्रसिद्धाया डलझीलायाः मनोहरदृश्ययुक्तेषु सोपानाकारपर्वतढालप्रदेशेषु विस्तीर्णम् एतदुद्यानं नानावर्णानां नानाविधानां च लक्षशः ट्यूलिपपुष्पैः विकसिष्यति, यत् आगन्तुकानां समक्षं अद्भुतं दृश्यं प्रस्तुतं करिष्यति।
अधिकारीणां अनुसारं अस्मिन् वर्षे उद्याने ट्यूलिपपुष्पाणां सप्तताधिकाः प्रजातयः रोपिताः सन्ति। ट्यूलिपपुष्पाणां अतिरिक्तं हयासिन्थ, डैफोडिल, मस्करी तथा रैननकुलस इत्यादयः अपि अन्ये वसन्तकालीनाः पुष्पाः रोपिताः सन्ति, येन उद्यानस्य शोभा वर्धते तथा पुष्पवैविध्यं अपि अधिकं भवति।
प्रतिवर्षं पुष्पकालसमये एतदुद्यानं देशविदेशेभ्यः सहस्रशः पर्यटकान्, प्रकृतिप्रेमिणः तथा छायाचित्रग्रहकान् आकर्षयति। अतः वसन्तऋतौ एतत् कश्मीरप्रदेशस्य अतीव दर्शनीयेषु पर्यटनस्थलेषु एकं भवति।
अधिकारिभिः पुष्पकालसमये सम्भाव्यमानां जनसमूहस्य व्यवस्थापनार्थं परिवहनसुविधाः, वाहनन्यासस्थानव्यवस्था, सुरक्षानियोजनं तथा अन्याः आवश्यकाः पर्यटकसुविधाः इत्यादयः व्यापकव्यवस्थाः कृताः।
---------------
हिन्दुस्थान समाचार