पत्रालयविभागः श्वः आरभ्य आरंभः ‘24 स्पीड पोस्ट’ सेवा,षड्त्सु नगरेषु अग्रिम दिने पदार्थानां प्राप्तिः
नवदिल्ली, 16 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी स्वास्थ्यस्य व्यायामस्य च महत्त्वं प्रतिपादयन् सोमवासरे एकं संस्कृतसुभाषितं साझा कृतवान्। सः उक्तवान् यत् उत्तमस्वास्थ्यं जीवनस्य महान् धनम् अस्ति। अस्य संरक्षणे नियमितव्यायामस्य महत्त्व
भारतीय डाक विभाग


नवदिल्ली, 16 मार्चमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी स्वास्थ्यस्य व्यायामस्य च महत्त्वं प्रतिपादयन् सोमवासरे एकं संस्कृतसुभाषितं साझा कृतवान्। सः उक्तवान् यत् उत्तमस्वास्थ्यं जीवनस्य महान् धनम् अस्ति। अस्य संरक्षणे नियमितव्यायामस्य महत्त्वपूर्णा भूमिका भवति।

प्रधानमन्त्री सर्वेषां देशवासिनां स्वस्थसुखमयजीवनस्य कामनां कृत्वा सामाजिकमाध्यममञ्चे एक्स इत्यत्र स्वसन्देशे संस्कृतभाषायां एतत् सुभाषितं प्रकाशितवान्—

“व्यायामाल्लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम्।आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥”

अस्य सुभाषितस्य अर्थं विवृण्वन् सः उक्तवान् यत् व्यायामेन उत्तमस्वास्थ्यं, दीर्घायु:, बलं तथा सुखं लभ्यते। उत्तमस्वास्थ्यं एव महान् सौभाग्यं अस्ति, तथा जीवनस्य सर्वेषां कार्याणां सफलतायाः आधारः अपि स्वस्थः शरीरः एव भवति।

मोदी उक्तवान् यत् उत्तमस्वास्थ्यं जीवनस्य महती संपत्तिः अस्ति, अस्मिन् च व्यायामस्य भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। सः सर्वेषां देशवासिनां कृते स्वस्थसुखमयजीवनस्य कामनां अपि कृतवान्।

----------

हिन्दुस्थान समाचार