Enter your Email Address to subscribe to our newsletters

खूंटी, 16 मार्चमासः (हि.स.)।
आगामिदिनेषु भविष्यन्तीनां रामनवमी, ईद, सरहुल इत्यादि उत्सवानां सन्दर्भे सोमवासरे खूंटी थाना-परिसरे शान्तिसमितेः सभा आयोजिता।
अनुमण्डलपदाधिकाऱिणी दीपेश कुमारी इत्यस्याः अध्यक्षतायां आयोजितायां अस्यां सभायां केन्द्रीय रामनवमी महासमितेः महामन्त्री जितेंद्र कश्यप सहिताः अन्ये सदस्याः श्रीरामनवमी-महोत्सवकाले अष्टमी, नवमी तथा दशमी तिथिषु केन्द्रीय रामनवमी महासमितेः तत्वावधाने भविष्यतां विविधकार्यक्रमाणां विषये विस्तरेण जानकारीं दत्तवन्तः।
तेन सह श्रीरामनवमी-महोत्सवकाले नवमी-दिवसे आयोजितायाः शोभायात्रायाः तथा मङ्गलवारी-जुलूसस्य कृते निर्धारितपरम्परागतमार्गस्य स्वच्छता, तथा उत्सवकाले विद्युत्-जलयोः निर्बाधपूर्तेः अपि मागं कृतवन्तः।
सभायां एतदपि सूचितं यत् प्रथमः मङ्गलवारी-जुलूसः १७ मार्चदिनाङ्के तथा द्वितीयः मङ्गलवारी-जुलूसः २४ मार्चदिनाङ्के आयोजितः भविष्यति।
Anjuman Islamia Khunti इत्यस्य सचिवः तथा वार्ड-पार्षदः खालिद हुसैन अवदत् यत् चन्द्रदर्शनानन्तरं मन्यमानः ईद-उत्सवः सम्भवतः २० अथवा २१ मार्चदिनाङ्के आचरिष्यते। तेन अपि उत्सवकाले विद्युत्-जलयोः निर्बाधपूर्तिः तथा समुचितस्वच्छतायाः व्यवस्था करणीयम् इति निवेदनं कृतम्।
तथैव Sarna Sangom Samiti इत्यस्य सदस्यः मथुरा कंडीर अवदत् यत् समित्या २१ मार्चदिनाङ्के खूंटी-नगरे सरहुल-उत्सवस्य भव्य-शोभायात्रा आयोजिता भविष्यति।
एतासां मागानां सन्दर्भे अनुमण्डलपदाधिकाऱिणी समुचितकार्यवाहिं करिष्यामि इति आश्वासनं दत्त्वा जनान् परस्पर-भ्रातृत्वेन सौहार्दपूर्णवातावरणे उत्सवान् आचरितुं आह्वयत्। सा अवदत् यत् उत्सवकाले कस्यापि अफवाहस्य विषये ध्यानं न दातव्यं, किन्तु तस्य सूचना त्वरितं प्रशासनाय दातव्या।
तथा समितिसदस्याः अपि स्वस्तरे स्वयंसेवकान् नियुक्त्य असामाजिकतत्त्वानां विषये निरीक्षणं कुर्वन्तु, यत्र कुतश्चित् अप्रियस्थितेः सूचना प्राप्यते तदा त्वरितं प्रशासनं सूचयन्तु इति अपि सा उक्तवती।
अस्यां सभायां रानी टूटी (नगरपञ्चायताध्यक्ष), वरुण रजक (एसडीपीओ), प्रदीप कुमार (अञ्चलाधिकारी), केन्द्रीय रामनवमी महासमितेः अध्यक्षः अनूप साहू, संरक्षकः ज्योतिष भगत, आनंद कुमार (भाजपा जिलाध्यक्ष), मनोज कुमार, तथा छोट राय मुंडा (प्रखण्डप्रमुख) इत्यादयः अन्ये सदस्याः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार