Enter your Email Address to subscribe to our newsletters


नागरिक सुरक्षा स्वयंसेवक आपदा प्रबंधनम् अथ च आंतरिक सुरक्षायाः क्षेत्रै शासन-प्रशासनयोः महत्वपूर्ण सहयोगी: प्रज्ञा ऋचा श्रीवास्तवः
भोपालम्, 16 मार्चमासः (हि.स.)।
मध्यप्रदेशे नागरिकसुरक्षा प्रशिक्षणकार्यक्रमस्य अन्तर्गतं त्रिदिवसीयः नागरिक सुरक्षा समागम २०२६ इत्यस्य शुभारम्भः सोमवासरे होमगार्ड लाईन, जेल मार्गे भोपाल नगरे अभवत्। अस्य उद्घाटनं होमगार्ड महानिदेशिका प्रज्ञा ऋचा श्रीवास्तव इत्यस्याः मुख्यातिथ्ये सम्पन्नम्।
अयं समागमः १६ मार्चतः १८ मार्च २०२६ पर्यन्तं आयोजितः अस्ति, यस्मिन् प्रदेशस्य विभिन्नजनपदेभ्यः आगतानां नागरिकसुरक्षा स्वयंसेवकानां कृते आपदाप्रबन्धन प्रशिक्षणम्, उद्धार प्रदर्शनम्, विविध स्पर्धाः तथा क्रीडाक्रियाः आयोज्यन्ते।
समारोहं सम्बोधयन्ती महानिदेशिका प्रज्ञा ऋचा श्रीवास्तव अवदत् यत् नागरिकसुरक्षा स्वयंसेवकाः आपदाप्रबन्धनस्य आन्तरिकसुरक्षायाश्च क्षेत्रे शासन प्रशासनस्य महत्त्वपूर्णाः सहयोगिनः सन्ति। सङ्कटकाले तेषां तत्परता सेवाभावना च समाजस्य कृते सुरक्षाकवचवत् कार्यं करोति। सा अवदत् यत् एतादृशाः प्रशिक्षणसमागमाः प्रदेशं आपदाप्रबन्धनक्षेत्रे अधिकं सक्षमं कुर्वन्ति तथा आत्मनिर्भर मध्यप्रदेश इत्यस्य लक्ष्यस्य अपि सुदृढीकरणं कुर्वन्ति।
कार्यक्रमकाले नागरिकसुरक्षा स्वयंसेवकैः विविधाः आपदाप्रबन्धन तथा उद्धारकार्याणां सजीव प्रदर्शनानि प्रदर्शितानि। आधुनिक उद्धार उपकरणानां प्रदर्शनम् अपि कृतम्, येन आपत्कालीन परिस्थितिषु त्वरित प्रतिक्रिया तथा समन्वित कार्यवाही कथं क्रियते इति प्रदर्शितम्।
आपदा तथा आपत्कालीन परिस्थितिषु नागरिकसुरक्षायाः भूमिका विषये सिविल डिफेन्स अधिनियम १९६८ तथा सिविल डिफेन्स विनियम १९६८ इत्ययोः प्रावधानानुसारं नागरिकसुरक्षार्थं स्वयंसेवकानां नामांकनं क्रियते। अस्मिन् सामान्यनागरिकैः सह भूतपूर्व सैनिकानां, वरिष्ठ एनसीसी कैडेटानां, एनएसएस सदस्याणां तथा निजी सुरक्षा कर्मिणां च प्राथमिकता दीयते।
प्रदेशस्य सर्वे जनपदाः सिविल डिफेन्स नगर इति घोषिताः सन्ति, यत्र जिलाधिकारी पदेन नियंत्रकस्य दायित्वं वहति। स्वयंसेवकानां कृते आपदाप्रबन्धन, अग्नि सुरक्षा, यातायात व्यवस्था तथा नागरिकसुरक्षा सेवासम्बद्धं सप्तदिवसीयं प्रशिक्षणं प्रदीयते।
नागरिकसुरक्षा संगठनस्य प्रमुख उद्देश्यः युद्धकाले अथवा आपत्कालीन परिस्थितिषु नागरिकानां जीवनरक्षणं, सम्पत्तेः क्षतिं न्यूनतमां कर्तुं, आवश्यक सेवाः तथा उत्पादनं च यथावत् स्थापयितुं तथा जनमानसस्य मनोबलं उच्चं धारयितुं भवति। शान्तिकाले संगठनं नागरिकान् सुरक्षा उपायेषु जागरूकान् करोति, तथा आपदा अथवा आपत्कालीन परिस्थितौ स्वयंसेवकाः अन्वेषण उद्धारकार्ये, प्राथमिक उपचार, भीड नियन्त्रण, राहत वितरण, सञ्चार सहायता, अग्निशमन कार्ये तथा मनोसामाजिक सहायता इत्यादिषु प्रशासनस्य सहयोगं कुर्वन्ति।
त्रिदिवसीयः नागरिक सुरक्षा समागम २०२६ प्रदेशस्य आपदाप्रबन्धन क्षमतां अधिकं सुदृढीकर्तुं महत्त्वपूर्णा पहल इति मन्यते। अयं समागमः नागरिकसुरक्षा स्वयंसेवकानां कौशलं, समन्वयं तथा सेवाभावनां नूतन ऊर्जा प्रदास्यति।
अस्मिन् अवसरे संभागायुक्तः संजीव सिंह, पुलिस आयुक्तः संजय कुमार, उप पुलिस महानिरीक्षकः, एसडीईआरएफ अधिकारी मनीष कुमार अग्रवाल इत्यादयः वरिष्ठ अधिकारी कर्मचारी च उपस्थिताः आसन्। कार्यक्रमे प्रायः पञ्चशताधिकाः सिविल डिफेन्स स्वयंसेवकाः, डिवीजन वार्डन तथा पोस्ट वार्डन सहभागिताम् अकुर्वन्।
---------------
हिन्दुस्थान समाचार