Enter your Email Address to subscribe to our newsletters

- गीता भवनस्य विभिन्न विकास कार्याणां करिष्यति भूमि-पूजनम्
भोपालम्, 16 मार्चमासः (हि.स.)।
मध्यप्रदेशस्य राज्यपालः मंगुभाई पटेल तथा मुख्यमन्त्री मोहन यादव मङ्गलवासरे १७ मार्चदिनाङ्के उज्जैन नगरे ७७ कोटि रूप्यकाणां व्यये निर्मीयमाणस्य गीता भवनस्य भूमिपूजनं करिष्यतः। तेन सह उज्जैन विकास प्राधिकरणेन क्रियमानानां नगरविकास योजनानां तथा सिंहस्थ २०२८ महोत्सवस्य विकासकार्याणां अन्तर्गतं ६६२.४६ कोटि रूप्यकाणां व्यये निर्मीयमानानां विविधनिर्माणकार्याणामपि भूमिपूजनं भविष्यति।
जनसम्पर्काधिकारी कपिम मिश्रा सोमवासरे जानकारीं दत्त्वा अवदत् यत् नगरविकास योजना ग्रामेषु नीमनवासा, धतरावदा तथा लालपुर इत्येषु ४७३.३२ हेक्टेयर क्षेत्रे विकसितक्रियते। अस्याः योजनायाः अन्तर्गतं प्रायः ३५ कि.मी. दीर्घाः २४ मीटर तथा ३० मीटर विस्तारयुक्ताः सीसी मार्गाः निर्मीयन्ते। तेषु मार्गेषु सीवर रेखा, जल रेखा, स्थायी भूमिगत विद्युत् व्यवस्था, मार्गदीपाः इत्यादयः विकासकार्याणि अपि क्रियन्ते। अस्य कार्यस्य व्ययः १६०.३९ कोटि रूप्यकाणि भविष्यति।
तेन उक्तं यत् विक्रम नगर आरओबी (रेल मार्गोपरि सेतु) निर्माणकार्यं ३०.६८ कोटि रूप्यकाणां व्यये क्रियते। अयं सेतु विक्रम उद्योगपुरी समीपे एमआर ५ मार्गात् नगरविकास योजना क्रमाङ्क ०३, ०४, ०५ तथा ०६ क्षेत्रान् संयोजयितुं निर्मीयते। अस्य आरओबी निर्माणेन रेल मार्ग क्रॉसिंगस्य माध्यमेन नगरसंयोगः सुलभः भविष्यति, तथा सिंहस्थकाले मक्सी तथा देवास नगराभ्यां आगच्छतः यातायातस्य अपि सुगमता भविष्यति।
जनसम्पर्काधिकारीनुसारं सिंहस्थ मेला कार्यालय भवनस्य निर्माणकार्यस्य अपि भूमिपूजनं भविष्यति, यस्य निर्माणव्ययः २९.८४ कोटि रूप्यकाणि अस्ति। अयं भवनः सिंहस्थ महोत्सवकाले आवश्यक व्यवस्थापनस्य प्रभावी नियन्त्रणस्य च कृते निर्मीयते।
एषः भवनः जी प्लस एक स्तरयुक्तः सन् प्रायः ६३ सहस्र वर्गफुट् क्षेत्रफले निर्मीयते। अस्मिन् मेला कार्यालय भवने एकीकृत कमान तथा नियन्त्रण केन्द्रम् अपि स्थाप्यते, येन सिंहस्थ महोत्सवस्य व्यवस्थापनं सुचारु रूपेण कर्तुं शक्येत।
---------------
हिन्दुस्थान समाचार