Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 मार्चमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मू, उपराष्ट्रपतिः सीपी राधाकृष्णन तथा प्रधानमन्त्रिः नरेन्द्र मोदी सोमवासरे ओडिशाराज्यस्य कटकनगरे स्थिते चिकित्सालये जातायां अग्निदुर्घटनायां जनानां मृत्यौ गहनं शोकं व्यक्तवन्तः। ते मृतानां परिजनानां प्रति संवेदनां प्रकटयित्वा घायितानां शीघ्रस्वास्थ्यलाभस्य कामनां कृतवन्तः। प्रधानमन्त्रिणा मृतानां परिजनानां कृते अनुग्रहराशेः घोषणापि कृता।
राष्ट्रपतिः मुर्मू सामाजिकमाध्यममञ्चे एक्स इत्यत्र स्वसन्देशे उक्तवती यत् कटकनगरे स्थिते चिकित्सालये घटितेन दुःखदेन अग्निकाण्डेन जनानां मृत्युः जातः, येन सा अत्यन्तं दुःखिता अस्ति। सा शोकसन्तप्तपरिवाराणां प्रति हार्दिकां संवेदनां व्यक्तवती तथा घायितानां शीघ्रस्वास्थ्यलाभस्य कामनां कृतवती।
उपराष्ट्रपतिः राधाकृष्णन अपि अस्यां घटनायां गहनं दुःखं व्यक्तवान्। सः अवदत् यत् कटकनगरे स्थिते चिकित्सालये जातया दुःखदया अग्निदुर्घटनया बहुमूल्यजीवनानां हानिः जाता, येन सः अत्यन्तं दुःखितः अस्ति। सः शोकाकुलपरिवाराणां प्रति संवेदनां प्रकटयित्वा घायितानां शीघ्रस्वास्थ्यलाभाय प्रार्थनां कृतवान्।
प्रधानमन्त्री मोदी अपि स्वसन्देशे उक्तवान् यत् कटकस्थिते चिकित्सालये जाता एषा दुर्घटना अत्यन्तं पीडादायिनी अस्ति। तेन मृतानां परिजनानां प्रति संवेदना व्यक्ता तथा घायितानां शीघ्रस्वास्थ्यलाभस्य कामना कृता। प्रधानमन्त्रिणा प्रधानमन्त्रिराष्ट्रीयराहतकोषात् प्रत्येकस्य मृतस्य आश्रिताय द्विलक्षरूप्यकाणि तथा प्रत्येकस्य घायितस्य कृते पञ्चाशत्सहस्ररूप्यकाणि अनुग्रहराशिरूपेण दातुं घोषणा कृता।
उल्लेखनीयम् यत् ओडिशाराज्यस्य कटकनगरे स्थिते एससीबी मेडिकल कॉलेज तथा चिकित्सालये अग्निलग्नेन दशजनानां मृत्युः अभवत् तथा अन्ये बहवः जनाः घायिताः अभवन्।
------------
हिन्दुस्थान समाचार