Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 16 मार्चमासः (हि.स.)।
ओडिशा राज्यस्य राज्यपालः डॉ. हरि बाबू कंभमपटि सोमवासरे नवीदिल्लीस्थिते संसदभवने भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदी महोदयेन सह भेंटं कृतवान्। अस्मिन् अवसरे राज्ये प्रवर्तमानानां विकासकार्यक्रमाणां तथा विविधक्षेत्रेषु क्रियमाणायाः प्रगतेः विषये विस्तरेण चर्चा अभवत्।
भेटसमये राज्यपालः प्रधानमन्त्रिणं ओडिशा राज्ये प्रवर्तमानानां नानाविधानां विकासपरियोजनानां विषये अवगतवान् तथा आधारभूतसंरचना, आर्थिकविकासः तथा सामाजिकक्षेत्रे दृश्यमानायाः स्थिरप्रगतेः विषये अपि जानकारीम् अदात्।
डॉ. कंभमपटि प्रधानमन्त्रिणं राज्यस्य विकासगतेः अधिकं वेगं दातुं क्रियमाणानां अनेकानां महत्वपूर्णानां उपायानां विषये अपि अवगतवान्। एते सर्वे उपायाः “विकसित ओडिशा” तथा “विकसित भारत” इति व्यापकदृष्टिकोणस्य अनुरूपाः सन्ति।
राज्यपालः उक्तवान् यत् एषा भेटा ओडिशा राज्यस्य विकासमार्गस्य समीक्षा कर्तुं तथा राज्यस्य प्रगतिं अधिकं सुदृढां कर्तुं क्रियमाणेषु प्रयासेषु चर्चा कर्तुं एकं महत्त्वपूर्णम् अवसरं प्रदानवती।
---
हिन्दुस्थान समाचार