रीवायां द्विदिवसीयनिर्गुणसमारोहः अद्यारभ्य
रीवा, 16 मार्चमासः (हि.स.)। मध्यप्रदेशे संस्कृतिविभागेन भोजपुरीसाहित्यसंस्कृतिकलानां संरक्षणविकासप्रोत्साहनार्थं रीवानगरे अद्य सोमवासरात् आरभ्य द्विदिवसीयः निर्गुणसमारोहः आयोज्यते। अस्मिन् समारोहे सुप्रसिद्धैः भोजपुरीगायकैः व्याख्यानं गायनं नृत्य
निर्गुण समारोह (आमंत्रण)


रीवा, 16 मार्चमासः (हि.स.)।

मध्यप्रदेशे संस्कृतिविभागेन भोजपुरीसाहित्यसंस्कृतिकलानां संरक्षणविकासप्रोत्साहनार्थं रीवानगरे अद्य सोमवासरात् आरभ्य द्विदिवसीयः निर्गुणसमारोहः आयोज्यते। अस्मिन् समारोहे सुप्रसिद्धैः भोजपुरीगायकैः व्याख्यानं गायनं नृत्यप्रस्तुतयः च प्रदर्श्यन्ते।

भोजपुरीसाहित्यअकादम्याः स्थानीयसंयोजकः विवेक द्विवेदी इत्यनेन सूचितं यत् समारोहस्य प्रथमदिने डॉ. मन्नू यादव (कृष्ण) बनारसनगरात् तथा मणिमाला सिंह रीवानगरात् प्रस्तुतीः दास्यतः।

एवमेव द्वितीयदिने 17 मार्च दिनाङ्के अंजू भारती लखनऊनगरात् स्वसहकलाकारैः सह कार्यक्रमे प्रस्तुतीः दास्यति।

संस्कृतिविभागस्य संचालकः एनपी नामदेव तथा निदेशकः अमित कुमार यादव पारम्परिकनिर्गुणगायनसमारोहॆ सर्वेषां उपस्थितेः विनम्रं अनुरोधं कृतवन्तौ।

---------------

हिन्दुस्थान समाचार