Enter your Email Address to subscribe to our newsletters

वाराणसी, 16 मार्चमासः(हि. स.)।
बॉलीवुड-अभिनेत्री जैकलिन फर्नाण्डीज् सोमवासरे अत्र गङ्गानद्यां स्वमातुः अस्थीनां विधिविधानपूर्वकं विसर्जनम् अकरोत्।
अभिनेत्री जैकलिन फर्नाण्डीज् अवदत् यत् सा मनसा धार्मिकस्वभावा अस्ति, अत एव स्वमातुः अस्थीनि गङ्गायाः मध्यधारायां विसर्जितवती। सा उक्तवती यत् वाराणसीनगरे धार्मिकः वातावरणः अस्ति तथा अत्र मोक्षः लभ्यते। गङ्गानद्याः तीरे शान्तिः अपि अनुभविता भवति।
अभिनेत्र्याः जैकलिन फर्नाण्डीज् मातुः अस्थीनां विसर्जनकर्म आचार्यः विकास पाण्डेय विधिविधानपूर्वकं सम्पन्नं कारितवान्। अभिनेत्री गङ्गातीरे नौकां स्वीकृत्य तस्याम् उपविश्य वैदिकमन्त्रुच्चारणेन सह अनुष्ठानं सम्पन्नं कारितवती।
किञ्चित्कालं गङ्गातटे स्थित्वा अनन्तरं जैकलिन ताजपथिकाश्रयं प्रति प्रस्थितवती।
---------------
हिन्दुस्थान समाचार