चैत्र अमावस्या 18 मार्च दिनांके, पितृ तर्पणं पुण्यं च इत्यनयोः विशेषः संयोगः
भोपालम्, 17 मार्चमासः (हि.स.)। हिन्दू-पञ्चाङ्गस्य अनुसारं १८ मार्च, बुधवासरे “दर्श-अमावस्या” इति पावन-संयोगः भवति। अयं दिवसः पितृणां शान्तये, तर्पणाय तथा दान-पुण्यकर्मणां कृते अत्यन्तं महत्त्वपूर्णः मन्यते। पण्डितानां ज्योतिषाचार्याणां च मतानुसारं
चैत्र अमावस्या


भोपालम्, 17 मार्चमासः (हि.स.)।

हिन्दू-पञ्चाङ्गस्य अनुसारं १८ मार्च, बुधवासरे “दर्श-अमावस्या” इति पावन-संयोगः भवति। अयं दिवसः पितृणां शान्तये, तर्पणाय तथा दान-पुण्यकर्मणां कृते अत्यन्तं महत्त्वपूर्णः मन्यते। पण्डितानां ज्योतिषाचार्याणां च मतानुसारं अस्मिन् दिने कृतानां धार्मिक-कर्मणां बहुगुणितं फलम् लभ्यते तथा पितृणाम् आशीर्वादः जीवने सुख-समृद्धिं जनयति।

उल्लेखनीयम् यत् हिन्दू-धर्मे प्रत्येक-अमावस्या स्वकीयं महत्त्वं वहति। धार्मिक-मान्यतानुसारं अस्मिन् दिने पितृणां कृते तर्पणं, श्राद्धं तथा जल-अर्पणं कृत्वा तेषां आत्मनां शान्तिः लभ्यते। अस्य विषये आचार्यः बृजेशचन्द्र-दुबे उक्तवान्— “दर्श-अमावस्या पितृणां प्रति कृतज्ञतां व्यक्तुं विशेषः अवसरः अस्ति। अस्मिन् दिने विधिपूर्वकं तर्पणं कृत्वा पितृ-दोषः निवर्तते तथा परिवारे सकारात्मक-ऊर्जा प्रवर्तते। अमावस्या-दिने दान-पुण्यं, स्नानं, जप-तपः च कृत्वा अनेक-जनमानां पापानां क्षयः भवति। विशेषतया जल, अन्न तथा वस्त्र-दानं अत्यन्तं फलप्रदम् अस्ति।”

तथैव पण्डितः राजेश-चौबे उक्तवान्— “ये जनाः नित्यं पितृणां तर्पणं कर्तुं न शक्नुवन्ति, तेषां कृते दर्श-अमावस्या श्रेष्ठः अवसरः अस्ति। अस्मिन् दिने कृतया पूजया पितरः तुष्टाः भूत्वा वंशजान् सुखं, समृद्धिं तथा स्वास्थ्यं ददति।”

अपरतः पण्डितः भरत-शास्त्री उक्तवान् यत् १८ मार्च दिने ब्रह्म-मुहूर्तः प्रातः ४:५२-वादनात् ५:४०-वादनपर्यन्तं भविष्यति, यः साधना-ध्यानयोः कृते श्रेष्ठः मन्यते। विजय-मुहूर्तः मध्याह्ने २:३०-वादनात् ३:१८-वादनपर्यन्तं, गोधूलि-मुहूर्तः सायं ६:२९-वादनात् ६:५३-वादनपर्यन्तं च भविष्यति। अमृत-कालः रात्रौ ९:३७-वादनात् ११:१०-वादनपर्यन्तं, निशीथ-मुहूर्तः च रात्रौ १२:०५-वादनात् १२:५३-वादनपर्यन्तं भविष्यति। अस्मिन् दिने अभिजित्-मुहूर्तः नास्ति। राहुकालः मध्याह्ने १२:२९-वादनात् २:००-वादनपर्यन्तं, यमगण्डः प्रातः ७:५८-वादनात् ९:२८-वादनपर्यन्तं, गुलिक-कालः १०:५९-वादनात् १२:२९-वादनपर्यन्तं च प्रभावी भविष्यति। दुर्मुहूर्तः मध्याह्ने १२:०५-वादनात् १२:५३-वादनपर्यन्तं भविष्यति। बुधवासरत्वात् पञ्चकस्य प्रभावः सर्वदिनं विद्यमानः भविष्यति।

सः अपि अवदत् यत् सूर्योदयः प्रातः ६:२८-वादने तथा सूर्यास्तः सायं ६:३१-वादने भविष्यति। कृष्ण-पक्षस्य चतुर्दशी तिथि: प्रातः ८:२५-वादनपर्यन्तं भविष्यति, ततः अनन्तरं अमावस्या-तिथि: आरभते। पूर्व-भाद्रपद-नक्षत्रं प्रातः ५:२१-वादनपर्यन्तं, ततः परं उत्तर-भाद्रपद-नक्षत्रं प्रवर्तते। शुभ-योगः प्रातः ४:०१-वादनात् आरभ्य १९ मार्च पर्यन्तं भविष्यति।

अतः धार्मिक-दृष्ट्या अयं दिवसः आत्म-शुद्धये, पूर्वजानां प्रति श्रद्धा-प्रदर्शनाय तथा जीवनस्य संतुलन-स्थापनाय उत्तमं अवसरं प्रददाति। श्रद्धया नियमेन च कृतानि कर्माणि पितृणां शान्तिं जनयन्ति, यस्य परिणामेन जीवने सुखं, शान्तिः तथा समृद्धिः अपि वर्धते।

---------------

हिन्दुस्थान समाचार