Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ मार्चमासः (हि.स.)। देशस्य जनजातीय-समुदायान् सशक्तीकर्तुं पर्यटन-क्षेत्रे च तेषां व्यावसायिक-परिचयं दातुं दिशि मङ्गलवासरे महान् प्रयत्नः कृतः। भारतीय-पर्यटन-विकास-निगमेन (आईटीडीसी) जनजातीय-कार्य-मन्त्रालयेन च संयुक्ततया आदिवासी-होमस्टे-स्वामिनां कृते “क्षमता-निर्माण-कार्यक्रमस्य” उद्घाटनं कृतम्।
अयं कार्यक्रमः नवदिल्ली-स्थिते होटल-सम्राटस्य कौटिल्य-सभागृहे आयोजितः। अस्य मुख्योद्देश्यं सामुदायिक-पर्यटनस्य प्रोत्साहनं कर्तुं तथा आदिवासी-क्षेत्रेषु आतिथ्य-मानकान् अन्ताराष्ट्रिय-स्तरं प्रति नेतुम् अस्ति।
आईटीडीसी-अधीनस्थेन ‘आईएचएम-अशोक’ इत्यनेन सञ्चालितस्य अस्य प्रशिक्षणस्य लक्ष्यं होमस्टे-संचालकानां सेवा-मानकान् प्रबन्धन-कौशलं च परिष्कर्तुम् अस्ति। प्रथम-चरणे अरुणाचल-प्रदेशः, सिक्किम-राज्यम्, गुजरात-राज्यम् च एतेभ्यः समग्रतः ४० प्रतिभागिनः सहभागिनः अभवन्। अस्य प्रयत्नस्य फलरूपेण न केवलं आगन्तुकानां अनुभवः उन्नीयते, अपितु आदिवासी-समुदायानां कृते स्वरोजगारस्य स्थायि-आयस्य च नूतनानि स्रोतांसि उद्घाट्यन्ते।
जनजातीय-कार्य-मन्त्रालयस्य सचिवः उक्तवान्— “भारतीय-पर्यटकानां चिन्तन-प्रणाली परिवर्तते। अद्यतन-यात्रिणः सम्मर्द-कोलाहलात् दूरं प्रकृतेः समीपे प्रदूषण-मुक्त-स्थानानां अन्वेषणं कुर्वन्ति। ते एतेषु स्थानेषु यथार्थानुभवं प्राप्तुं दीर्घकालं निवस्तुं इच्छन्ति। अस्मिन् देशे यत्र होटल-कक्षाणां महती न्यूनता अस्ति, होमस्टे-नमूना सशक्तं समाधानं प्रदर्शयति। एतत् न केवलं आधुनिक-यात्रिणां अपेक्षाः पूरयति, अपितु आदिवासी-कुटुम्बानां, विशेषतः पर्वतीय-वन-प्रदेशेषु निवसतां जनानां कृते, सार्थक-जीविकाया अवसरान् अपि सृजति।”
आईटीडीसी-संस्थायाः प्रबन्ध-निदेशिका मुग्धा-सिन्हा उक्तवती यत् भारते होमस्टे-आन्दोलनं प्रधानमन्त्री नरेन्द्र-मोदिनः देशव्यापी एक-लक्ष-होमस्टे-स्थापनस्य दृष्ट्या प्रेरितम् अस्ति। १५०० प्रतिभागिनः प्रशिक्षयितुं अस्माकं वर्तमानः प्रयासः केवलं प्रारम्भः अस्ति। अस्माकं व्यापकं लक्ष्यं तान् स्व-स्व-राज्येषु प्रशिक्षकाणां प्रशिक्षकान् कर्तुं सशक्तीकर्तुम् अस्ति, येन अयं आदर्शः शीघ्रं विस्तारितुं शक्येत्, तथा समुदायाः स्वगृहेषु एव प्रशिक्षणं प्राप्नुयुः।अस्मिन् अवसरे “ट्राइबल-होमस्टे-ऑपरेशन-एण्ड-डेवलपमेंट-मैनुअल २०२६” इति महत्त्वपूर्ण-प्रकाशनस्य अपि विमोचनं कृतम्। आईएचएम-अशोकेन विकसितम् एतत् मैनुअल-आदिवासी-होमस्टे-विकासस्य व्यावहारिक-मार्गदर्शकरूपेण कार्यं करिष्यति।
समुदायेषु प्रभावी-प्रवेशं सुनिश्चितुं एतत् मैनुअल-बहुभाषिक-रूपेण सज्जीकृतम् अस्ति। अधुना एतत् हिन्दी-गुजराती-भाषयोः अनूदितम् अस्ति, येन स्थानीय-संचालकाः तद् सहजतया अवगन्तुं शक्नुवन्ति। एषः प्रयासः भारतस्य दूरवर्ती-प्रदेशान् पर्यटन-मानचित्रे स्थापितुं, स्थानीय-संस्कृतेः संरक्षणं कर्तुं तथा आर्थिक-विकासं वेगवत्तरं कर्तुं च मील-शिलारूपेण भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता