Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ मार्चमासः (हि.स.)। केन्द्रीय-कृषि-कृषक-कल्याण-मन्त्री शिवराज-सिंह-चौहानः मङ्गलवासरे उक्तवान् यत् तम्बाकु-सेवनस्य विभिन्न-प्रकाराणां कारणेन देशे प्रति-वर्षं प्रायः १३-लक्ष-जनानां मृत्युः भवति। अस्मात् कारणात् सर्वकारः तम्बाकु-क्षेत्र-स्थाने वैकल्पिक-सस्यानां प्रोत्साहनस्य दिशि कार्यं करोति।कृषि-मन्त्री लोकसभायां प्रश्नकाले घोषी-क्षेत्रात् समाजवादी-पक्षस्य सदस्यस्य राजीव-रायस्य प्रश्नस्य उत्तरं दत्त्वा स्पष्टवान् यत् सर्वकारः कृषकेभ्यः तम्बाकु-क्षेत्रं परित्यक्तुं न उक्तवान्, अपितु तेषां कृते विकल्पान् सज्जीकृतवान्। तेन उक्तं यत् केषु केषु क्षेत्रेषु तम्बाकु-इत्यस्य स्थाने कानि कानि सस्यानि उत्पादयितुं शक्यन्ते इति अपि अध्ययनं कृतम्। एतेषु संकर-मक्का, मरिचिका, शर्करकन्दः, कपासः, आलूकम्, चिया-बीजम्, फीड-बीन्, लोबिया, रागी, मुद्गफलिका, सोयाबीन तथा ज्वारादिनि सस्यानि समाविष्टानि सन्ति।
शिवराज-सिंह-चौहानः उक्तवान् यत् लघु-कृषकाणां कृते एकीकृत-कृषि-आदर्शस्य उपरि कार्यं क्रियमाणम् अस्ति। लघु-कृषकाः केवलं एकस्मिन् सस्ये आश्रिताः न भवेयुः, अपितु धान्य-उत्पादनम्, शाक-उत्पादनम्, दलहन-उत्पादनम्, पशुपालनम्, मत्स्य-पालनम्, मधुमक्षिका-पालनम् इत्यादिषु विविधेषु क्षेत्रेषु अपि ध्यानं दद्युः। अस्य कृते अनेकस्थानेषु प्रदर्शनानि अपि क्रियमाणानि सन्ति, येन लघु-कृषकाणां कृषिः लाभकारी-व्यवसायः भवितुं शक्नोति।
हिन्दुस्थान समाचार / अंशु गुप्ता